Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 12 मईमासः (हि.स.)।राष्ट्रियप्रौद्योगिकीदिवसस्य अवसरे आयोजिते कार्यक्रमे वैज्ञानिकऔद्योगिकअनुसन्धानपरिषद्-सेन्ट्रल बिल्डिंग रिसर्च इन्स्टिट्यूट् (सीएसआईआर-सीबीआरआई), रुड़कीद्वारा विकसिताः त्रयोदश स्वदेशीप्रौद्योगिक्यः उद्योगेभ्यः तथा स्टार्ट-अप्स् संस्थाभ्यः हस्तान्तरिताः। एतासु अग्निसुरक्षा, टिकाऊनिर्माणम्, ऊर्जादक्षता तथा अधोसंरक्षणसंरक्षणसम्बद्धाः नवाचाराः समाविष्टाः सन्ति।
केन्द्रीयविज्ञानप्रौद्योगिकीमन्त्रालयस्य अनुसारम् अद्य अत्र सीएसआईआर मुख्यालये आयोजितस्य कार्यक्रमस्य समये रुड़कीस्थिते सीएसआईआर-सेन्ट्रल बिल्डिंग रिसर्च इन्स्टिट्यूट् (सीबीआरआई) इत्यस्य मुख्यवैज्ञानिकः डॉ. अजय चौरसिया उक्तवान् यत् उद्योगोन्मुखप्रौद्योगिकीहस्तान्तरणेन देशे नवाचाराधारितविकासस्य गति वर्धिष्यते। सीएसआईआर-सीबीआरआई इत्यस्य निदेशकः प्रो. आर. प्रदीप कुमार उक्तवान् यत् राष्ट्रियप्रौद्योगिकीदिवसे एषः आयोजनः विशेषमहत्त्वं धारयति तथा स्वदेशीप्रौद्योगिकीनां उद्योगेभ्यः हस्तान्तरणं भारतस्य अनुसन्धानतन्त्रस्य सुदृढतायाः आत्मनिर्भरभारतलक्ष्यस्य च दिशि महत्त्वपूर्णः चरणः अस्ति।
कार्यक्रमे काष्ठस्य तस्य विकल्पानां च कृते अग्निरोधकपारदर्शीलेपनप्रौद्योगिकी, आरसीसीसंरचनानां सुरक्षार्थम् आईपीएन लेपनप्रौद्योगिकी, न्यूनकार्बनईटनिर्माणप्रौद्योगिकी, हाइब्रिडसौरसहायितहीटपम्पप्रणाली तथा भित्तिसुरक्षार्थं प्रीफैब्रिकेटेड उच्चशक्तियुक्तस्टीलकॉर्डप्रौद्योगिक्याः हस्तान्तरणं कृतम्। एताः प्रौद्योगिक्यः विभिन्नेषु उद्योगेषु तथा स्टार्ट-अप्स् संस्थासु समर्पिताः, येन ताः व्यावसायिकस्तरे कार्यान्वितुं शक्येरन्।
अस्मिन् अवसरे ‘सीएसआईआर स्मार्ट विलेज पहल’ इत्यस्य आधारेण निर्मितः एकः चलचित्रः अपि प्रकाशितः, यस्मिन् ग्रामीणविकासे टिकाऊप्रौद्योगिक्यां च सीएसआईआर इत्यस्य योगदानं प्रदर्शितम्। सहैव सीएसआईआर-सीबीआरआई इत्यस्य वार्षिकप्रतिवेदनम् २०२५-२६ अपि प्रकाशितम्।
सीएसआईआर इत्यस्य महानिदेशिका तथा डीएसआईआर सचिवा डॉ. एन कलैसेल्वी उक्तवती यत् विज्ञानम्, नवाचारः तथा प्रौद्योगिकीआधारितविकासः भारतं विकसितराष्ट्रं कर्तुं यात्रायां प्रमुखां भूमिकां निर्वहति। सीएसआईआर प्रयोगशालाभिः विकसितानां स्वदेशीप्रौद्योगिकीनां उद्योगेभ्यः हस्तान्तरणं राष्ट्रियनवाचारतन्त्रं सुदृढं करोति तथा आत्मनिर्भरभारतलक्ष्यं शीघ्रं साकारं करोति। तया सीएसआईआर-सीबीआरआई दलं गतवर्षेषु विकसितानां प्रभाविप्रौद्योगिकीनां समाजे उद्योगेषु च प्रसारणार्थं अभिनन्दितम्।
---------------
हिन्दुस्थान समाचार