Enter your Email Address to subscribe to our newsletters

कानपुर-नगरम्, १२ मईमास: (हि.स.)। छत्रपति-शाहू-जी-महाराज-विश्वविद्यालयस्य (सी.एस.जे.एम.यू.) दादा-साहब-फाल्के-स्टूडियो छात्रेभ्यः आधुनिक-माध्यम-प्रौद्योगिकीं तथा इलेक्ट्रॉनिक-माध्यमस्य सूक्ष्मतां व्यावहारिक-प्रशिक्षणरूपेण प्रददाति, येन ते भविष्ये मीडिया-सञ्चार-क्षेत्रे उत्तमान् अवसरान् प्राप्नुवन्ति। अस्मिन् स्टूडियो-मध्ये वीडियो-रिकॉर्डिंग, एंकरिंग, पॉडकास्ट-निर्माणम्, वीडियो-सम्पादनम् तथा पी.सी.आर.-सञ्चालनम् इत्यादीनां प्रशिक्षणं दीयते। नवीन-शिक्षा-नीतेः अन्तर्गतं डिजिटल-शिक्षायाः प्रोत्साहनेऽपि एतत् स्टूडियो महत्त्वपूर्णां भूमिकां निर्वहति।
एतत् मङ्गलवासरे पत्रकारिता-तथा-जनसञ्चार-विभागस्य विभागाध्यक्षः डॉ.दिवाकर-अवस्थी अवदत्। सः उक्तवान् यत् छत्रपति-शाहू-जी-महाराज-विश्वविद्यालयस्य पत्रकारिता-जनसञ्चार-विभागे स्थापितः दादा-साहब-फाल्के-स्टूडियो छात्रेभ्यः आधुनिक-माध्यम-प्रौद्योगिकी-शिक्षायाः प्रमुखं केन्द्रम् अभवत्। अत्याधुनिक-सुविधाभिः सुसज्जितः अयं स्टूडियो छात्रान् तकनीकी-प्रशिक्षणेन सह दूरदर्शन-समाचार-चैनलानां कार्यप्रणालीं अपि परिचययति। अत्र ग्रीन-स्क्रीन-क्रोमा, टेलीप्रॉम्प्टर, डिजिटल-कैमेरा, ऑडियो-कन्सोल् तथा प्री-प्रोडक्शन, प्रोडक्शन, पोस्ट-प्रोडक्शन इत्यादयः सुविधाः सन्ति।
डॉ.दिवाकर-अवस्थी अनुसारं स्टूडियो-इत्यस्य उद्देश्यं विद्यार्थिनां इलेक्ट्रॉनिक-माध्यमस्य व्यावहारिक-ज्ञानं दातुं अस्ति, येन ते भविष्ये मीडिया-सञ्चार-क्षेत्रे उत्तमान् अवसरान् प्राप्नुयुः। अत्र वीडियो-रिकॉर्डिंग, एंकरिंग, पॉडकास्ट-निर्माणम्, वीडियो-सम्पादनम् तथा पी.सी.आर.-सञ्चालनस्य प्रशिक्षणं दीयते।
स्टूडियो-निरीक्षक: डॉ.ओमशङ्कर-गुप्तः अवदत् यत् विश्वविद्यालयस्य अध्यापकाः स्व-व्याख्यानानि रेकॉर्ड् कृत्वा सोशल-मीडिया तथा ज्ञान-सञ्चय-पटल-मध्ये अपलोड्-इति कुर्वन्ति, येन छात्राः कक्षा-शिक्षणेन सह अन्तर्जाल-अध्ययनस्य लाभं प्राप्नुवन्ति। छात्रेभ्यः स्क्रिप्ट-लेखनात् आरभ्य शूटिंग्, सम्पादनम्, अन्तिम-प्रस्तुतीकरणपर्यन्तं सम्पूर्णा प्रक्रिया शिक्ष्यते। विभागेन समय-समये कार्यशालाः तथा विशेषज्ञ-व्याख्यानानि अपि आयोजितानि भवन्ति, येन विद्यार्थिनः पत्रकार-क्षेत्रस्य अनुभवी-व्यावसायिकेभ्यः शिक्षां लभन्ते।
हिन्दुस्थान समाचार / अंशु गुप्ता