मातुः कामाख्यायाः कृपया असमे निर्मितः तृतीयवारं भाजपायाः सर्वकारः - रेखागुप्ता
नवदिल्ली, 12 मईमासः (हि.स.)।रेखा गुप्ता अद्य असमराज्यस्य मां कामाख्या मंदिर इत्यस्य पवित्रधाम्नि सपरिवारं पूजाम् अर्चनां च कृत्वा समस्त-देशवासिनां सुखं समृद्धिं उत्तम-स्वास्थ्यं च कामितवती। मुख्यमन्त्री दर्शनानन्तरं पत्रकारैः सह संवादे उक्तवती
असम स्थित मां कामाख्या देवी के मंगलवार को दर्शन करती दिल्ली की मुख्यमंत्री रेखा गुप्ता


नवदिल्ली, 12 मईमासः (हि.स.)।रेखा गुप्ता अद्य असमराज्यस्य मां कामाख्या मंदिर इत्यस्य पवित्रधाम्नि सपरिवारं पूजाम् अर्चनां च कृत्वा समस्त-देशवासिनां सुखं समृद्धिं उत्तम-स्वास्थ्यं च कामितवती।

मुख्यमन्त्री दर्शनानन्तरं पत्रकारैः सह संवादे उक्तवती यत् असमराज्ये तृतीयवारं भारतीय जनता पार्टी दलस्य सरकारः माता कामाख्या-देव्याः कृपयैव स्थापितः अभवत्। जनानां प्रेम, विश्वासः तथा मातुः आशीर्वादः सदैव असमराज्यं प्रगतिपथे नेतुं विकसितं कर्तुं च समर्थः भवतु, एषा एव कामना अस्ति। वयं सर्वे नरेन्द्र मोदी महोदयस्य नेतृत्वे विकसित-भारतस्य विकसित-असमस्य च यात्रां सम्पन्नां कुर्मः।

मुख्यमन्त्री उक्तवती यत् पूर्वोत्तर-भारतं “अष्टलक्ष्मी” इति रूपेण आस्था, संस्कृति, आध्यात्मिक-चेतना तथा विकासस्य अद्भुत-शक्तेः प्रतीकं वर्तते। माता कामाख्या-देव्याः एषा पुण्यभूमिः शताब्दीभ्यः शक्तेः, साधनायाः, सनातन-परम्परायाः च दिव्य-धारया सम्पूर्ण-राष्ट्रं प्रेरयन्ती आगता अस्ति। सा माता कामाख्यां प्रति भारतस्य निरन्तर-प्रगतये, समृद्धये तथा गौरवस्य मार्गे अग्रे गन्तुं प्रार्थनाम् अकरोत्।

------------

हिन्दुस्थान समाचार