Enter your Email Address to subscribe to our newsletters




गुवाहाटी-नगरम्, १२ मईमासः (हि.स.)। प्रधानमन्त्रिणः नरेन्द्र-मोदिनः उपस्थितौ मङ्गलवासरे भाजप-नेता डॉ.हिमन्त-बिस्व-सरमा सततं द्वितीयवारम् असम-राज्यस्य मुख्यमन्त्रिरूपेण शपथं गृहीतवान्। राज्यपालः लक्ष्मण-प्रसाद-आचार्यः तस्मै पद-गोपनीयतयोः शपथं प्रदत्तवान्। एतेन सह असम-राज्ये भाजप-नेतृत्वे राजग-सर्वकारस्य तृतीयः कार्यकालः आरब्धः।
गुवाहाटी-नगरस्य खानापारा-स्थिते पशु-चिकित्सा-महाविद्यालयस्य क्रीडा-प्राङ्गणे आयोजिते भव्य-समारोहे डॉ.सरमणा प्रधानमन्त्रिणः नरेन्द्र-मोदिनः, गृहमन्त्रिणः अमित-शाहस्य, राजनाथ-सिंहस्य, नितिन-गडकरी-महोदयस्य, जे.पी.-नड्डायाः तथा अन्येषां प्रमुख-नेतॄणां उपस्थितौ शपथः गृहीतः। तेन सह रामेश्वर-तेली, अजंता-नेओग, अतुल-बोरा तथा चरण-बोडो अपि मन्त्रिपदस्य शपथं गृहीतवन्तः।
उल्लेखनीयम् अस्ति यत् २०२६-विधानसभा-निर्वाचने राजगेन १२६ आसन्दीषु १०२ आसन्द्यः प्राप्ताः। तेषु भाजप-दलाय ८२ आसन्द्यः, अगप-दलाय १० आसन्द्यः तथा बी.पी.एफ.-दलाय १० आसन्द्यः प्राप्ताः। समारोहस्य समये जनानां मध्ये महान् उत्साहः दृष्टः तथा सुरक्षाबलानां विशाल-व्यवस्था अपि कृता आसीत्।
शपथ-ग्रहण-समारोहे शिवराज-सिंह-चौहानः, निर्मला-सीतारमणः, अश्विनी-वैष्णवः, योगी-आदित्यनाथः, चन्द्रबाबू-नायडुः, मोहन-यादवः, देवेन्द्र-फडणवीसः, पुष्कर-सिंह-धामी, रेखा-गुप्ता इत्यादयः अनेक-प्रमुख-नेतारः अपि उपस्थिताः आसन्।
-------------
हिन्दुस्थान समाचार / अंशु गुप्ता