Enter your Email Address to subscribe to our newsletters

नवदेहली, १२ मईमासः (हि.स.)। राष्ट्रपतिः द्रौपदी-मुर्मू मङ्गलवासरे अन्तरराष्ट्रीय-परिचारिका-दिवसस्य अवसरे राष्ट्रपतिभवने आयोजिते समारोहे २०२६-वर्षस्य राष्ट्रीय-फ्लोरेन्स-नाइटिङ्गेल-पुरस्कारान् प्रदत्तवती।
अस्मिन् वर्षे देशस्य विभिन्न-राज्येभ्यः केन्द्रशासित-प्रदेशेभ्यः च १५ परिचारिका-कर्मचारिणः तेषां उत्कृष्ट-योगदानाय चयनिताः।
राष्ट्रपतिः अस्मिन् अवसरे अवदत् यत् परिचारिका-कर्मचारिणः सेवायाः उच्चतम-मानदण्डानां उदाहरणं प्रस्तुवन्ति तथा गुणवत्तापूर्ण-स्वास्थ्य-सेवां प्रदाने महत्त्वपूर्णां भूमिकां निर्वहन्ति। सा उक्तवती यत् स्वास्थ्य-सेवा-व्यावसायिकाः करुणया समर्पणेन च राष्ट्रस्य सेवां कुर्वन्ति तथा बहुषु अवसरिषु अत्यन्त-चुनौतिपूर्ण-परिस्थितिष्वपि रोगिणां परिचर्यां सुनिश्चितां कुर्वन्ति।
राष्ट्रपतिः मुर्मू अवदत्— “अयं अवसरः तेषां परिचारिका-कर्मचारिणां स्वास्थ्य-सेवा-व्यावसायिकानां च अमूल्य-योगदानस्य प्रति उचित-श्रद्धाञ्जलिः अस्ति, ये करुणया अटूट-समर्पणेन च राष्ट्रस्य सेवां कुर्वन्ति। अहं सर्वेषां पुरस्कार-विजेतॄणां कर्तव्यस्य प्रति प्रेरणादायिनीं निष्ठां तथा रोगी-परिचर्यायाः उच्चतम-मानदण्डानां संरक्षणे तेषां अथक-प्रयत्नानां प्रशंसां करोमि।”
उल्लेखनीयम् अस्ति यत् राष्ट्रीय-फ्लोरेन्स-नाइटिङ्गेल-पुरस्काराणां स्थापना १९७३-वर्षे स्वास्थ्य-परिवार-कल्याण-मन्त्रालयेन परिचारिका-क्षेत्रे उल्लेखनीय-सेवानां मान्यतार्थं कृता आसीत्। एषः पुरस्कारः देशे परिचारिका-वृत्तेः सर्वोच्चं राष्ट्रीय-सम्मानं मन्यते।
अस्मिन् वर्षे पुरस्कार-प्राप्तेषु ए.एन.एम.-श्रेण्यां लद्दाखतः कुलविन्दर-परही, महाराष्ट्रतः उज्वला-महादेव-सोयम्, मिजोरमतः लालेन्थाङ्गी-नामटे, सिक्किमतः मधु-माला-गुरुङ्ग:, उत्तराखण्डतः पूजा-परमार-राणा तथा पश्चिम-बङ्गालतः गीता-कर्मकार सम्मिलिताः।
परिचारिका-श्रेण्यां चण्डीगढतः पूनम-वर्मा, दादरा-नगर-हवेली-दमन-दीवप्रदेशतः दीपा-बीजू, दिल्लीतः डॉ.श्रवण-कुमार-ढाका, गोवातः रक्षा-रूपो-पर्वतकर, कर्नाटकतः कविता-जगन्नाथ, केरलतः मञ्जु-मोल्-वी.एस., लक्षद्वीपतः आयशा-बीबी-के, तमिलनाडुतः प्रोफेसर (डॉ.)आर.शङ्कर-शानमुगम् तथा सेना-मुख्यालयात् (आई.एचक्यू., रक्षा-मन्त्रालयः) दिल्लीतः मेजर-जनरल: लिस्सम्मा-पी.वी. सम्मानिताः।
हिन्दुस्थान समाचार / अंशु गुप्ता