(अपडेट) असम-राज्ये हिमन्त-बिस्व-शर्मणा सह पञ्च विधायकाः मन्त्रि-पदस्य शपथं ग्रहीष्यन्ति
गुवाहाटी-नगरम्, १२ मईमासः (हि.स.)। असम-राज्ये डॉ.हिमन्त-बिस्व-सरमा इत्यनेन सह समग्रतः पञ्च जनाः अद्य पदस्य गोपनीयतायाश्च शपथं ग्रहीष्यन्ति। एषा सूचना निवर्तमान-मुख्यमन्त्रिणा हिमन्तेन ‘एक्स’ इति सामाजिक-माध्यमे प्रदत्ता। डॉ.सरमणा उक्तं यत् तस्य एते
मुख्यमंत्री पद के लिए नामित होने के बाद डॉ हिमंत बिस्व सरमा।


गुवाहाटी-नगरम्, १२ मईमासः (हि.स.)। असम-राज्ये डॉ.हिमन्त-बिस्व-सरमा इत्यनेन सह समग्रतः पञ्च जनाः अद्य पदस्य गोपनीयतायाश्च शपथं ग्रहीष्यन्ति। एषा सूचना निवर्तमान-मुख्यमन्त्रिणा हिमन्तेन ‘एक्स’ इति सामाजिक-माध्यमे प्रदत्ता। डॉ.सरमणा उक्तं यत् तस्य एते चत्वारः सहकारिणः प्रधानमन्त्रिणः नरेन्द्र-मोदिना गरिमामय-उपस्थितौ तेन सह मन्त्रि-पदस्य शपथं ग्रहीष्यन्ति। एतेषु रामेश्वर-तेली, अतुल-बोरा, चरण-बोडो तथा अजन्ता-नेओग इत्येते सन्ति। एतेषु द्वौ भारतीय-जनता-पक्षस्य, एकः असम-गण-परिषदः तथा एकः बीपीएफ-दलस्य विधायकः अस्ति।

तेन उक्तं यत् रञ्जीत-दासः विधानसभाध्यक्ष-पदस्य प्रत्याशी भविष्यति। तेन सर्वेभ्यः शुभकामनाः प्रदत्ताः। तेन उक्तं यत् “वयं सर्वे मिलित्वा अधिक-सुदृढ-विकसित-समृद्ध-असम-निर्माणाय पूर्ण-निष्ठया निरन्तरं कार्यं करिष्यामः।”

उल्लेखनीयम् अस्ति यत् शपथ-ग्रहण-समारोहस्य सज्जता व्यापक-स्तरे कृता अस्ति। अस्मिन् समारोहॆ प्रधानमन्त्रिणः नरेन्द्र-मोदिनः, केन्द्रीय-गृहमन्त्रिणः अमित-शाहस्य, भाजपायाः राष्ट्रिय-अध्यक्षस्य नितिन-नवीनस्य, २२-राज्यानां मुख्यमन्त्रिणां, अनेक-केन्द्रीय-मन्त्रिणां, भाजपायाः तथा एनडीए-संघटनस्य राष्ट्रिय-नेतृभि: सह बहवः उद्योगपतयः अपि सहभागिन: भविष्यन्ति।

प्रधानमन्त्री, गृहमन्त्री च इत्येतै: सह प्रायः सर्वे नेतारः सोमवासर-रात्रौ एव गुवाहाटी-नगरम् प्राप्तवन्तः। अस्मिन् कार्यक्रमे भाजपायाः तथा एनडीए-संघटनस्य बूथ-अध्यक्षाः तथा पंचायत-निर्वाचित-अध्यक्षाः अपि आमन्त्रिताः सन्ति। प्रधानमन्त्रिणः तथा गृहमन्त्रिणः आगमनस्य दृष्ट्या सम्पूर्णे खानापाडा-प्रदेशे सुरक्षाबलानां व्यापक-नियोजनं कृतम्। कार्यक्रमस्य कारणेन बहुषु मार्गेषु परिवर्तनम् अपि कृतम्। कामाख्या-प्रदेशात् खानापाडा-प्रदेशं यावत् तथा बरझाड-विमानस्थानकात् कार्यक्रम-स्थलं यावत् मार्गाणां स्वच्छता तथा सौन्दर्यीकरण-कार्यं सम्पन्नम्।

डॉ.सरमा अद्य प्रातः ११ वादने खानापाडा-वेटरिनरी-महाविद्यालय-प्राङ्गणे आयोजिते भव्य-समारोहे मुख्यमन्त्री-पदस्य गोपनीयतायाश्च शपथं ग्रहीष्यति। कार्यक्रम-स्थले भव्य-मंचानां निर्माणं कृतम् तथा सुरक्षायाः व्यापक-व्यवस्था अपि कृता अस्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता