Enter your Email Address to subscribe to our newsletters

शिमला, 12 मईमासः (हि.स.)।
हिमाचलप्रदेशसर्वकारः ३१ मई दिनाङ्कपर्यन्तं राज्यस्य पोषणनीतिं निर्मास्यति। मुख्यमन्त्री सुखविन्द्रसिंह सुक्खू स्वास्थ्यविभागस्य अधिकारिभ्यः एतत्कार्यं निर्धारितसमयसीमायाः अन्तर्गतं सम्पन्नं कर्तुं निर्देशान् दत्तवान्। मुख्यमन्त्री उक्तवान् यत् “फिट हिमाचल” इति लक्ष्यस्य सिद्ध्यर्थं जनानां प्रति पौष्टिकभोजनस्य महत्त्वविषये जागरूकताजननम् अत्यावश्यकम् अस्ति। सर्वकारेण दावः कृतः यत् हिमाचलप्रदेशः व्यापकपोषणनीतिं निर्मातुं सज्जः देशस्य प्रथमं राज्यं भविष्यति।
सोमवासरस्य सायंकाले स्वास्थ्यविभागस्य वरिष्ठाधिकारिभिः सह आयोजितायां सभायां मुख्यमन्त्री स्वास्थ्यसेवासु डिजिटलीकरणस्य आवश्यकतायामपि बलं दत्तवान्। तेन उक्तं यत् रोगिणां सम्पूर्णः अभिलेखः अन्तर्जालमाध्यमेन उपलब्धः भवेत्, येन जनाः पुनः पुनः पंजीकरणं कर्तुं तथा परीक्षणप्रतिवेदनानां कागदीयप्रतिलिपीनां संरक्षणे उत्पद्यमानात् क्लेशात् मुक्तिं प्राप्नुयुः। एतदर्थं मुख्यमन्त्रिणा आईजीएमसी शिमला चिकित्सालये प्रायोगिकपरियोजनां आरभितुं निर्देशाः प्रदत्ताः।
अस्याः परियोजनायाः अन्तर्गतं पैथोलॉजी, रेडियोलॉजी, माइकोलॉजी, बायो-केमिस्ट्री तथा फार्मेसी विभागानां रोगिणां सम्पूर्णदत्तांशः डिजिटलरूपेण सज्जीक्रियिष्यते। मुख्यमन्त्रिणा अधिकारिभ्यः एतदपि उक्तं यत् अस्य कार्यस्य कृते आवश्यकं मानवबलं उपलब्धं क्रियताम्। सरकारस्य योजना अस्ति यत् प्रथमं आईजीएमसी चिकित्सालये एषा व्यवस्था प्रवर्त्यते, ततः अनन्तरं चिकित्सालयस्य सर्वेषु विभागेषु, पश्चात् प्रदेशस्य अन्येषु चिकित्सामहाविद्यालयेष्वपि विस्तारितं भविष्यति।
सभायां मुख्यमन्त्री उक्तवान् यत् राज्यसरकारः हिमाचले स्वास्थ्यसेवानां सुदृढीकरणाय बृहद्स्तरे कार्यं कुर्वती अस्ति। तेन सूचितं यत् अत्याधुनिकयन्त्राणां स्वास्थ्योपकरणानां च कृते प्रायः ३००० कोटिरूप्यकाणां व्ययस्य योजना निर्मिता अस्ति। एतदतिरिक्तं त्रिषु चिकित्सामहाविद्यालयेषु स्वचालितप्रयोगशालास्थापनार्थं ७५ कोटिरूप्यकाणि अनुमोदितानि सन्ति।
मुख्यमन्त्री उक्तवान् यत् सर्वकारः चिकित्सामहाविद्यालयेषु वरिष्ठ-रेजिडेंट-चिकित्सकानां स्थानसंख्यां द्विगुणीकर्तुं दिशि अपि कार्यं कुर्वती अस्ति। तस्य अनुसारं एते चिकित्सकाः चिकित्सालयानां स्वास्थ्यसंस्थानानां च उत्तमसञ्चालने महत्त्वपूर्णां भूमिकां निर्वहन्ति तथा रोगिभ्यः समये उपचारं प्रदातुं साहाय्यं कुर्वन्ति।
---------------
हिन्दुस्थान समाचार