Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, १२ मईमासः (हि.स.)। विश्व-योग-दिवसस्य उपलक्ष्ये मध्यप्रदेशस्य आयुष-विभागः विशेष-अभियानस्य शुभारम्भं कर्तुं गच्छति। अद्य मंगलवासरात् आरभ्यमाणे ‘हर-घर-योग-अभियाने’ ८०० स्वास्थ्य-कल्याण-केन्द्रेषु (आयुष्मान-आरोग्य-मन्दिरेषु) तथा सर्वेषु चिकित्सालयेषु नियुक्ताः योग-शिक्षकाः १०-१५ नागरिकानां लघु-समूहेषु योगाभ्यासं कारयिष्यन्ति।
मुख्यमन्त्रिणा डॉ.मोहन-यादवेन उक्तं यत् प्रधानमन्त्रिणा नरेन्द्र-मोदिना स्वस्थ-जीवन-शैलीं निरोग-कायां च प्राप्तुं योगः सर्वोत्तमः उपायः इति निर्दिष्टः। यूनेस्को इत्यनेन २१ जून-दिनाङ्कः ‘विश्व-योग-दिवसः’ इति घोषितः। मध्यप्रदेशस्य आयुष-विभागेन योगं गृहं-गृहं प्रति प्रापयितुं विद्यालयेषु महाविद्यालयेषु च अनुकरणीयम् अभियानं प्रारब्धम्। सर्व-वयस्काः जनाः योगाभ्यासाय प्रेरिताः भवेयुः इति उद्देश्येन राज्य-सर्वकारेण ‘योग-सखी’ तथा ‘योग-दूत’ इत्येतयोः निर्माणस्य निर्णयः अपि कृतः।
तेन उक्तं यत् प्रदेशवासिनः योगेन सह सम्बद्धान् कर्तुं २१ जून-पर्यन्तम् एतद् अभियानं सञ्चालयिष्यते। अस्य अन्तर्गतं पण्डित-खुशीलाल-आयुर्वेदिक-महाविद्यालयस्य, भोपाल-नगरस्य, मास्टर-प्रशिक्षकाः स्टूडियो-माध्यमेन ४५-निमेष-दीर्घाणि प्रत्यक्ष-योग-सत्राणि आयोजयिष्यन्ति। एतद् अभियानं विश्व-योग-दिवस-पर्यन्तं निरन्तरं प्रवर्तिष्यते। निरोगित्वेन सह स्वस्य अपार-क्षमताः अपि योगस्य माध्यमेन जागरयितुं शक्यन्ते।
मुख्यमन्त्रिणा डॉ.यादवेन प्रदेशवासिभ्यः गृहं-गृहं जनं-जनं प्रति योगस्य प्रसारार्थं मिलित्वा योगाभ्यासं कर्तुं निरोगं च भवितुम् आह्वानं कृतम्।
हिन्दुस्थान समाचार / अंशु गुप्ता