हिमंत बिस्व सरमा निरंतरं द्वितीयवारं असमस्य मुख्यमंत्रिणः रूपेणागृह्णात् शपथवचनम्
गुवाहाटी, 12 मईमासः (हि.स.)। हिमंत बिस्व सरमा इत्यस्य नेतृत्वे भारतीय जनता पार्टी दलस्य नेता डॉ. हिमंत बिस्व सरमा द्वितीयवारं असमराज्यस्य मुख्यमन्त्रिपदस्य शपथं गृहीतवान्। मङ्गलवासरे राज्यपालः लक्ष्मण प्रसाद आचार्य तस्मै पदस्य गोपनीयतायाश्च शपथं दत
मुख्यमंत्री पद की शपथ लेंने के बाद प्रधानमंत्री नरेंद्र मोदी का अभिवादन स्वीकार करते हुए मुख्यमंत्री डॉ हिमंत बिस्व सरमा।


गुवाहाटी, 12 मईमासः (हि.स.)। हिमंत बिस्व सरमा इत्यस्य नेतृत्वे भारतीय जनता पार्टी दलस्य नेता डॉ. हिमंत बिस्व सरमा द्वितीयवारं असमराज्यस्य मुख्यमन्त्रिपदस्य शपथं गृहीतवान्। मङ्गलवासरे राज्यपालः लक्ष्मण प्रसाद आचार्य तस्मै पदस्य गोपनीयतायाश्च शपथं दत्तवान्।

गुवाहाटीनगरस्य खानापारा स्थिते वेटरनरी कॉलेज क्रीडाङ्गणे आयोजिते भव्यसमारोहे डॉ. सरमा नरेन्द्र मोदी, गृहमन्त्री अमित शाह, भाजपायाः राष्ट्रियाध्यक्षः नितिन नवीन, केन्द्रीयमन्त्री राजनाथ सिंह, नितिन गडकरी च, राष्ट्रियजनतान्त्रिकगठबन्धनशासितराज्यानां मुख्यमन्त्रिणां च उपस्थितौ मुख्यमन्त्रिपदस्य शपथं गृहीतवान्। तस्य शपथग्रहणानन्तरं भाजपायाः नवनिर्वाचितविधायकौ रामेश्वर तेल तथा अजंता नेओग, असम गण परिषद दलस्य अतुल बोरा तथा बोडोलैंड पीपुल्स फ्रंट दलस्य चरण बोडो मन्त्रिपदस्य शपथं गृहीतवन्तः। राज्यपालः तान् पदस्य गोपनीयतायाश्च शपथं दत्तवान्।

असमविधानसभानिर्वाचने २०२६ तमे वर्षे राष्ट्रियजनतान्त्रिकगठबन्धने उत्कृष्टं प्रदर्शनं कृत्वा १२६ सदस्ययुक्तायां विधानसभायां १०२ स्थानानि विजितानि। तेषु भारतीय जनता पार्टी दलाय ८२ स्थानानि प्राप्तानि, सहयोगिदलानां च अपि उत्तमं प्रदर्शनम् अभवत्।

------------------

हिन्दुस्थान समाचार