Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, १२ मईमासः (हि.स.)। पश्चिम-बङ्गाले हावड़ा-नगर-निगम-निर्वाचनं प्रति दीर्घकालात् प्रचलितस्य गतिरोधस्य समाप्तये राज्य-सर्वकारेण प्रयत्न: आरब्ध:। मुख्यमन्त्री शुभेन्दु-अधिकारी तथा राज्यस्य नगर-विकास-मन्त्री अग्निमित्रा-पालयोः मध्ये हावड़ा-नगर-निगम-निर्वाचनस्य शीघ्र-आयोजन-विषये महत्त्वपूर्णा चर्चा अभवत्।
प्रायः अष्ट-वर्षेभ्यः हावड़ा-नगर-निगमस्य निर्वाचनं न जातम्। वर्षे २०१३ तमे अन्तिमवारं निर्वाचनं सम्पन्नम् आसीत्, यदा तु नगर-निगमस्य कार्यकालः २०१८ तमे वर्षे समाप्तः अभवत्। ततः प्रभृति: निर्वाचनस्य आयोजनस्य स्थाने प्रशासकान् नियोज्य नगर-निगमस्य सञ्चालनं क्रियमाणम् आसीत्।
नूतन-सर्वकारे नगर-विकास-विभागस्य दायित्वं स्वीकृत्य अग्निमित्रा-पाल: अवदत् यत् हावड़ा-नगर-निगम-निर्वाचनस्य अनायोजनं कस्यापि न गोप्यम् अस्ति। सा उक्तवती यत् पदभार-ग्रहणस्य प्रथम-दिने एव मुख्यमन्त्रिणा सह अस्मिन् विषये चर्चा कृता। सर्वकारः इच्छति यत् हावड़ा-नगरस्य जनाः उत्तमाः नगर-सेवाः प्राप्नुयुः, तदर्थं निर्वाचन-प्रक्रिया शीघ्रं प्रवर्तिता भविष्यति।
उल्लेखनीयम् अस्ति यत् वर्षे २०१५ तमे बाली-नगर-पालिकां समाप्य तां हावड़ा-नगर-निगमे सम्मिलिता आसीत्। तस्मिन् समये षोडश-नव-वार्डाः निर्माय उपनिर्वाचनम् आयोजितम्, यस्मिन् तत्कालीन-सत्तारूढया तृणमूल-काङ्ग्रेस-दलेन सर्वासु आसन्दीषु विजयः प्राप्तः। पश्चात् बाली-नगरपालिकायाः पुनः पृथक्-नगरपालिकात्व-प्रदानार्थं विधानसभायां विधेयकं पारितम् अभवत्।
सूत्राणां अनुसारं हावड़ा-नगर-निगमस्य वित्तीय-व्यवस्था तथा प्रशासनिक-संरचना-विषये दीर्घकालं यावत् राजभवनस्य राज्य-सर्वकारस्य च मध्ये मतभेदाः आसन्। किन्तु अद्यतन-दिनेषु अस्मिन् विषये सहमतेः निर्माणस्य सूचना प्राप्ता अस्ति।
गत-वर्षेषु हावड़ा-नगर-निगमस्य प्रशासकरूपेण अरूप-रायः तथा सुजय-चक्रवर्ती इत्यादिभ्यः नेतृभ्यः दायित्वं प्रदत्तम् आसीत्, किन्तु नगर-सेवासु अपेक्षितः सुधारः न जातः। इदानीं नूतन-सर्वकारस्य गठनानन्तरं हावड़ा-नगर-निगम-निर्वाचनं प्रति पुनः राजनैतिक-प्रशासनिक-गतिविधयः तीव्राः जाताः।
हिन्दुस्थान समाचार / अंशु गुप्ता