भोपाल-नगरम् अद्य ‘इण्डो-फ्रेञ्च-निवेश-सम्मेलनम्’, फ्रान्स-देशस्य प्रमुख-निर्माणिनां प्रतिनिधयः सहभागिन: भविष्यन्ति
भोपाल-नगरम्, १२ मईमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाल-नगरे अद्य ‘इण्डो-फ्रेञ्च-निवेश-सम्मेलनस्य’ आयोजनं भवति। अस्मिन् सम्मेलने फ्रान्स-देशस्य प्रमुख-निर्माणिनां प्रतिनिधयः सहभागिन: भविष्यन्ति तथा मुख्यमन्त्री डॉ.मोहन-यादवः विदेशीय-निवेशकान् स
सीएम मोहन यादव


भोपाल-नगरम्, १२ मईमासः (हि.स.)। मध्यप्रदेशस्य राजधानी भोपाल-नगरे अद्य ‘इण्डो-फ्रेञ्च-निवेश-सम्मेलनस्य’ आयोजनं भवति। अस्मिन् सम्मेलने फ्रान्स-देशस्य प्रमुख-निर्माणिनां प्रतिनिधयः सहभागिन: भविष्यन्ति तथा मुख्यमन्त्री डॉ.मोहन-यादवः विदेशीय-निवेशकान् सह मध्यप्रदेशे निवेश-सम्भावना-विषये संवादं करिष्यति।

कुशाभाऊ-अन्ताराष्ट्रिय-कन्वेन्शन्-केन्द्रे आयोज्यमाने अस्मिन् कार्यक्रमे उद्योग, अधोसंरचना, नवीकरणीय-ऊर्जा, औषध-उद्योगः, पर्यटनम्, वाहन-उद्योगः तथा प्रौद्योगिकी-सहयोगः इत्यादिषु विशेष-चर्चा भविष्यति। सम्मेलनस्य माध्यमेन मध्यप्रदेश-फ्रान्स-देशयोः मध्ये औद्योगिक-सहभागिता, निवेशः तथा कौशल-विकासस्य नूतन-अवसराः सृज्यन्ते इति अपेक्षा अस्ति।

कार्यक्रमे फ्रांसीसी-निर्माणिनां प्रतिनिधिभिः सह बी-२-बी तथा बी-२-जी सभा: अपि भविष्यन्ति। मुख्यमन्त्रिणः उपस्थितौ महत्त्वपूर्ण-सन्धिनां आदान-प्रदानम् अपि करिष्यते। कार्यक्रमानन्तरं फ्रांसीसी-प्रतिनिधिमण्डलं भीमबेटका-शैलाश्रयाणां भ्रमणं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता