568तमो जोधपुर स्थापना दिवस समारोहः, बहूनां कार्यक्रमाणाम् आयोजनम्
मारवाड़स्य 19 प्रतिभाः मारवाड़ रत्न सम्मानेन सम्मानिताः, विभिन्न प्रतियोगितानां विजेत्र्यः पुरस्कृताः जोधपुरम्, 12 मईमासः (हि.स.)।जोधपुरस्य ५६८तमः स्थापनादिवससमारोहः मंगलवासरे नगरे सोत्साहम् आचरितः। अस्मिन् अवसरे नगरस्य सर्वेषु भागेषु विविधकार्यक
jodhpur


मारवाड़स्य 19 प्रतिभाः मारवाड़ रत्न सम्मानेन सम्मानिताः, विभिन्न प्रतियोगितानां विजेत्र्यः पुरस्कृताः

जोधपुरम्, 12 मईमासः (हि.स.)।जोधपुरस्य ५६८तमः स्थापनादिवससमारोहः मंगलवासरे नगरे सोत्साहम् आचरितः। अस्मिन् अवसरे नगरस्य सर्वेषु भागेषु विविधकार्यक्रमाः आयोजिताः। मुख्यसमारोहः महिला पॉलिटेक्निक महाविद्यालयपरिसरस्थिते मारवाड़ इण्टरनेशनल सेन्टरमध्ये आयोजितः। अस्मिन् “मारवाड़ वीर शिरोमणि सम्मान” सहितं विविधक्षेत्रेषु उल्लेखनीययोगदानं कृतवतीभ्यः १९ प्रतिभाभ्यः अतिथिभिः “मारवाड़ रत्न सम्मानः” प्रदत्तः।

मेहरानगढ़ म्यूजियम ट्रस्ट संस्थायाः प्रशासनिकाधिकारी कर्नल अजयसिंह शेखावतः उक्तवान् यत् समारोहः सांसदः राव राजेन्द्रसिंहस्य मुख्यातिथ्ये आयोजितः तथा समारोहस्य अध्यक्षता पूर्वराजपरिवारस्य गजसिंहेन कृता। अस्मिन् वर्षे अमरशहीदः परमवीरः मेजर शैतानसिंह “मारवाड़ वीर शिरोमणि सम्मानेन” सम्मानितः।

एतदतिरिक्तं डॉ. एमएल जाट “राव सीहा सम्मानेन”, मिस्टर एलन वैबर “महाराज सर प्रतापसिंह सम्मानेन”, श्याम कुम्भट “राव जोधा सम्मानेन”, डॉ. ईशा दीक्षित तथा डॉ. प्रणव दीक्षित “महाराजा हनवन्तसिंह सम्मानेन”, विंग कमाण्डर दीपिका मिश्रा “मेजर दलपतसिंह (एमसी) सम्मानेन”, प्रो. जॉन डी. स्मिथ “पद्मभूषण कोमल कोठारी सम्मानेन”, मैमुना नरगिस जैदी “कुंवर करणीसिंह जसोल सम्मानेन”, उमर मोहम्मद “महाराजा विजयसिंह सम्मानेन”, डॉ. जितेन्द्र कुमार सोनी “महाराजा मानसिंह सम्मानेन”, पद्मश्री श्यामसुन्दर पालीवाल “एचएच महाराजा उम्मेदसिंह सम्मानेन”, सरिता राठौड़ “राजदादीसा बदन कंवर भटियाणी सम्मानेन”, मोहनसिंह राठौड़ “एचएच राजमाता कृष्णाकुमारी सम्मानेन”, झीमा देवी “एचएच महाराजा गजसिंह (द्वितीय) सम्मानेन”, संदीपसिंह मान “चिरंजीव युवराज शिवराजसिंह सम्मानेन”, डॉ. भुवनेश जैन “मुहता नैणसी सम्मानेन”, रफीक खान “राजाराम मेघवाल सम्मानेन”, नागराज शर्मा “पद्मश्री सीताराम लालसजी सम्मानेन” तथा डॉ. मंगत बादल “डॉ. नारायणसिंह भाटी मालूंगा सम्मानेन” च सम्मानिताः।

मुख्यसमारोहे त्रयाणां पुस्तकानां लोकार्पणमपि कृतम्। तासु डॉ. महेन्द्रसिंह तंवर विरचितं तथा रिड़मलोत समाज विकास एवं कल्याण ट्रस्ट मारवाड़ संस्थया प्रकाशितं “रिडमलोत राठौड़ों का गौरवशाली इतिहास”, मेजर चन्द्रकान्तसिंह विरचितं “मिरेकल एट हाइफा-दी मास्टर एण्ड दी महाराजास” तथा प्रो. एलएन हर्ष विरचितं “ए रॉयल ट्री ऑफ मारवाड़ स्टेट प्रोसोपिस जुलिफ्लोरा हिस्टोरिकल इण्टरोडक्शन, इकॉलोजी, मैनेजमेण्ट एण्ड यूटीलाईजेशन्स” इति पुस्तकानि समाविष्टानि।

तथैव जोधपुरस्य स्थापनादिवसस्य उपलक्ष्ये विविधविद्यालयेषु आयोजितायाः निबन्धचित्रकलाप्रतियोगितायाः विजेतृभ्यः गजसिंहेन प्रमाणपत्राणि वितरितानि।

हिन्दुस्थान समाचार