Enter your Email Address to subscribe to our newsletters

जयपुरम्, 12 मईमासः (हि.स.)।राजस्थानकर्मचारीचयनमण्डलेन जयपुरनगरे आयोजितायाः कनिष्ठसहायकसंयुक्तप्रत्यक्षभर्ती-२०२४ इत्यस्याः कृते मुख्यसूच्याः चयनितानां अननुसूचितक्षेत्रस्य अष्टानां, प्रतीक्षासूच्याः चयनितानां अननुसूचितक्षेत्रस्य एकशतत्रयोदशानां तथा अनुसूचितक्षेत्रस्य द्वादशानाम् (पृथक्पृथक्) अभ्यर्थिनां विभागविकल्पाः आमन्त्र्यन्ते।
सम्बद्धाः अभ्यर्थिनः विभागस्य जालपुटे ard.rajasthan.gov.in इत्यत्र उपलब्धस्यानुबन्धस्य माध्यमेन स्वस्य एस्.एस्.ओ.परिचयसंख्या तथा गुप्तशब्दस्य प्रयोगं कृत्वा ऑनलाइनविण्डोमध्ये स्वविकल्पप्राथमिकताः दिनाङ्के १३ मई २०२६ प्रातः ११:०० वादनात् आरभ्य १९ मई २०२६ सायं ०५:०० वादनपर्यन्तम् अनिवार्यतया पूरयितुं सुनिश्चितं कुर्वन्तु।
मण्डलस्य पक्षतः प्रदत्तसूचनानुसारं मण्डलेन चयनानन्तरम् अधीनस्थविभागेभ्यः कार्यालयेभ्यश्च अभिशंसितानाम् अभ्यर्थिनां विभागविनियोजनं क्रियिष्यते। अस्मिन् विषये विस्तृतनिर्देशाः ऑनलाइनपटले प्रदर्शिताः सन्ति। कस्यापि प्रकारस्य नूतननिर्देशस्य परिवर्तनस्य वा सूचना विभागस्य जालपुटे एव प्रदर्शिता भविष्यति। अस्मिन् विषये पृथक् कापि विज्ञप्तिः न प्रकाशिताभविष्यति। अतः कृपया सम्बद्धाः अभ्यर्थिनः जालपुटं निरन्तरं पश्यन्तु।
---------------
हिन्दुस्थान समाचार