Enter your Email Address to subscribe to our newsletters

लखनऊ, 12 मईमासः (हि.स.)। उत्तरप्रदेशे अयोध्या, काशी, मथुरा च अनन्तरम् अधुना बरेलीस्थितानां ‘नाथपरम्परा’ सम्बद्धानां धार्मिकस्थलानां विकासाय नूतना गतिः प्रदातुं सज्जता वर्तते। मुख्यमन्त्रिणः योगीआदित्यनाथस्य निर्देशनानुसारं राज्यसर्वकारेण नाथकॉरिडोरस्य अन्तर्गतं बरेलीस्थितानां दश प्रमुखाणाम् आध्यात्मिकस्थलानाम् एकीकृतविकासस्य महत्त्वाकाङ्क्षियोजनायां शीघ्रतया कार्यारम्भः कृतः। प्रायः षष्टिकोटिरूप्यकाधिकव्ययेन सञ्चालितानां एतासां परियोजनानाम् उद्देश्यः श्रद्धालुभ्यः पर्यटकेभ्यश्च उत्तमसुविधाभिः सह समग्राध्यात्मिकसांस्कृतिकानुभवस्य प्रदायनम् अस्ति।
पर्यटनसंस्कृतिमन्त्री जयवीरसिंहः मङ्गलवासरे अवदत् यत् ‘उत्तरप्रदेशे धार्मिकपर्यटनस्य विशिष्टपरिचयं दातुं राज्यसरकारः अधुना नाथपरम्परासम्बद्धानि भगवान्शिवेन सम्बद्धानि प्राचीनस्थलानि शृंखलाबद्धरूपेण विकसितवती अस्ति। मुख्यमन्त्रिणः योगीआदित्यनाथस्य निर्देशानुसारं नाथकॉरिडोर इत्यस्य अन्तर्गतं प्रमुखशिवमन्दिराणां धार्मिकस्थलानां च पर्यटनविकासः क्रियते। “विकासोऽपि, संपदा अपि” इति चिन्तनं साकारं कुर्वती सरकारः एतेषां प्राचीनमन्दिराणां पौराणिकतां आध्यात्मिकगरिमां च अक्षुण्णां स्थापयित्वा आधुनिकपर्यटनसुविधानां विस्तारं करोति।’
धोपेश्वरं, तपेश्वरं, वनखण्डीनाथमन्दिराणि च
मन्त्री जयवीरसिंहः अवदत् यत् ‘बरेलीनगरे नाथकॉरिडोरस्य अन्तर्गतं प्रमुखधार्मिकस्थलेषु प्राथमिकताधारेण पर्यटनविकासः क्रियते। अस्य अन्तर्गतं बरेलीनगरस्य सदरकैन्ट् क्षेत्रस्थितस्य पञ्चसहस्रवर्षप्राचीनस्य श्रीधोपेश्वरनाथमन्दिरस्य पर्यटनविकासः ७.७४ कोटिरूप्यकव्ययेन, नगरस्य जोगीनवादास्थितस्य द्वापरयुगीनस्य वनखण्डीनाथमन्दिरस्य ५.८२ कोटिरूप्यकैः, त्रिवटीनाथमन्दिरस्य पर्यटनविकासः ६.५५ कोटिरूप्यकव्ययेन, तपेश्वरनाथमन्दिरस्य पर्यटनविकासः ८.३६ कोटिरूप्यकव्ययेन च क्रियते।
अलखनाथ, पशुपतिनाथमन्दिरस्य पर्यटनविकासः
एतदतिरिक्तं नाथकॉरिडोरस्य अन्तर्गतं प्रायः नवशतत्रिंशदधिकवर्षप्राचीनस्य अलखनाथमन्दिरस्य पर्यटनविकासः ११.६७ कोटिरूप्यकैः क्रियते, यस्मिन् मुख्यद्वारात् आरभ्य वैदिकग्रन्थालयपर्यन्तं निर्माणकार्याणि भविष्यन्ति। नेपालस्थितस्य पशुपतिनाथमन्दिरस्य सदृशं पीलीभीतबाइपास् मार्गे निर्मितस्य श्रीपशुपतिनाथमन्दिरस्य २ कोटि ९८ लक्षाधिकरूप्यकैः पर्यटनविकासः क्रियते। नाथकॉरिडोरस्य महत्त्वपूर्णस्थलस्य श्रीतुलसीमठस्य पर्यटनविकासाय प्रदेशसरकारेण ९.७१ कोटिरूप्यकव्ययः भविष्यति। एवं श्रीमढ़ीनाथमन्दिरस्य अपि पर्यटनविकासः क्रियते। परियोजनायाः अन्तर्गतं बरेलीनगरस्य प्रमुखेषु विशिष्टेषु च १९ स्थलेषु ४.९७ कोटिरूप्यकव्ययेन फोकसवाल् निर्माणकार्यं क्रियते।
कांवडयात्रिकाणां कृते विशेषव्यवस्थाः
श्रावणमासे बरेलीनगरम् आगच्छतां कांवडयात्रिकाणां कृते उत्तमसुविधानां प्रदाने उद्देश्येन ४ कोटिरूप्यकाधिकव्ययेन विविधविकासकार्याणि भूमितले कार्यान्वितानि भवन्ति। एतेषु कार्येषु श्रद्धालूनां सुविधां सर्वोपरि स्थापयित्वा व्यवस्थाः सुदृढाः क्रियन्ते, येन कांवडयात्रा अधिकं सुव्यवस्थिता सुविधाजनका च भवेत्।
वैदिकग्रन्थालयः... कांवडयात्रिकेषु विशेषध्यानम्
बरेलीनगरे नाथकॉरिडोर इत्यस्य अन्तर्गतं क्रियमाणेषु विकासकार्येषु यात्रिविश्रामगृहाणि, वैदिकग्रन्थालयः, मुख्यद्वारनिर्माणम्, प्रसादविक्रयकक्षाः, पुष्पविक्रयकक्षाः, सत्सङ्गशेड्, यात्रिशेड्, परिक्रमामार्गः, भूशोभाकरणम्, एल्.ई.डी.प्रकाशव्यवस्था, शौचालयखण्डाः, सौन्दर्यीकरणकार्याणि च सम्मिलितानि सन्ति। तेन सह फोकसवाल्निर्माणं तथा कांवडयात्रिकाणां कृते मूलभूतसुविधानां विकासः अपि क्रियते।
हिन्दुस्थान समाचार