सेशेल्ससंबद्धेभ्यः सिविलसेवकेभ्यः सुशासनस्य, नीति निर्माणस्य च प्रशिक्षणम्
नव दिल्ली, 12 मईमासः (हि.स.)।राष्ट्रियसुशासनकेंद्रे मसूरीनगरे सेशेल्सदेशस्य लोकसेवकानां कृते सुशासनम्, नीतिनिर्माणम्, प्रौद्योगिकी-नवाचारः, न्यायिकसुधारः इत्यादिषु विषयेषु प्रशिक्षणप्रदानार्थं क्षमता-विकास-कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे २९
मसूरी स्थित एनसीजीजी में सेशेल्स के सिविल सेवकों के लिए आयोजित क्षमता निर्माण कार्यक्रम में शामिल प्रतिनिधि।


नव दिल्ली, 12 मईमासः (हि.स.)।राष्ट्रियसुशासनकेंद्रे मसूरीनगरे सेशेल्सदेशस्य लोकसेवकानां कृते सुशासनम्, नीतिनिर्माणम्, प्रौद्योगिकी-नवाचारः, न्यायिकसुधारः इत्यादिषु विषयेषु प्रशिक्षणप्रदानार्थं क्षमता-विकास-कार्यक्रमः आयोजितः। अस्मिन् कार्यक्रमे २९ वरिष्ठाधिकारिणः सहभागिनः अभवन्, येषु रक्षा, वित्त, शिक्षा, न्यायपालिका तथा राष्ट्रपतिः कार्यालयस्य अधिकारिणः अपि सन्ति।

केन्द्रीय-कार्मिक-लोकशिकायत-पेन्शन-मन्त्रालयेन उक्तं यत् एषः द्विसाप्ताहिकः प्रशिक्षण-कार्यक्रमः ११ मईतः २२ मईपर्यन्तं मसूरी तथा नवदिल्लीनगरे आयोजितः अस्ति। अस्मिन्नेव वर्षे फरवरीमासे भारत-सेशेल्सयोः मध्ये सम्पन्नसहमत्यनुसारं त्रिवर्षेषु २५० लोकसेवकानां प्रशिक्षणं दातुं लक्ष्यं निर्धारितम् अस्ति। उद्घाटन-सत्रस्य अध्यक्षता सुरेंद्रकुमार बगड़े महोदयेन कृता। तेन उक्तं यत् पाठ्यक्रमः अधिकारिणां व्यावसायिक-आवश्यकतानुसारं निर्मितः अस्ति तथा च अस्य उद्देश्यं तान् उच्च-प्रभावयुक्त-राष्ट्रिय-कार्यक्रमाणां कार्यान्वयनाय सक्षमं कर्तुम् अस्ति।

प्रतिनिधिमण्डलस्य प्रमुखः एलेक्स हेंडरसन भारतसर्वकारस्य प्रति कृतज्ञतां प्रकटयन् उक्तवान् यत् एतत् प्रशिक्षणं न केवलं क्षमता-विकासं वर्धयिष्यति, अपितु द्विपक्षीय-सम्बन्धान् अपि दृढान् करिष्यति। भारत-सेशेल्सयोः ऐतिहासिक-सांस्कृतिक-सम्बन्धान् एषः कार्यक्रमः अधिकं सुदृढं करिष्यति।

कार्यक्रम-समन्वयकः बीएस बिष्ट अवदत् यत् प्रशिक्षणे सुशासनस्य सिद्धान्ताः, नीतिनिर्माणम्, प्रौद्योगिकी-नवाचारः, न्यायिक-सुधारः, ई-कोर्ट्स्, शासकीय-क्रये पारदर्शिता, कृत्रिमबुद्धिमत्ता-आधारित-सुशासनम्, पीएम गति शक्ति तथा प्रशासनिक-नैतिकता इत्यादयः विषयाः समाविष्टाः सन्ति। द्वितीय-चरणे सहभागिनः विभिन्न-संस्थानानां भ्रमणं करिष्यन्ति, येन ते व्यवहारिक-अनुभवं अपि प्राप्स्यन्ति।

उल्लेखनीयम् अस्ति यत् राष्ट्रिय सुशासनकेंद्रम् अधुना पर्यन्तं ५२ देशानां ५५०० अधिकान् लोकसेवकान् प्रशिक्षितवान् अस्ति। एतेषु श्रीलंका, बांग्लादेश, नेपाल, भूटान, म्यांमार, केन्या, तंजानिया, ट्यूनीशिया, गाम्बिया, मालदीव तथा अन्येषाम्आफ्रीकी-लैटिन-अमेरिकी-देशानां अधिकारिणः समाविष्टाः सन्ति।

-----------

हिन्दुस्थान समाचार