नीट-यूजी 2026 परीक्षा निरस्ता, अनियमिततानां परिशीलनं सीबीआईद्वारा करिष्यते
नवदिल्ली, 12 मईमासः (हि.स.)।राष्ट्रीय परीक्षण एजेंसी इत्यनेन नीट-यूजी २०२६ परीक्षा निरस्ता कृत्वा पुनः परीक्षा आयोजयितुं निर्णयः कृतः। परीक्षायां कथित-अनियमितताः तथा अन्वेषण-संस्थानाभ्यः प्राप्त-सूचनानां आधारेण एषः निर्णयः स्वीकृतः। सहैव केन्द्रीय-
नीट-यूजी परीक्षा रद्द (प्रतिकात्मक चित्र)


नवदिल्ली, 12 मईमासः (हि.स.)।राष्ट्रीय परीक्षण एजेंसी इत्यनेन नीट-यूजी २०२६ परीक्षा निरस्ता कृत्वा पुनः परीक्षा आयोजयितुं निर्णयः कृतः। परीक्षायां कथित-अनियमितताः तथा अन्वेषण-संस्थानाभ्यः प्राप्त-सूचनानां आधारेण एषः निर्णयः स्वीकृतः। सहैव केन्द्रीय-सरकारेण सम्पूर्णस्य विषयस्य व्यापक-अन्वेषणं केंद्रीय अन्वेषण ब्यूरो संस्थायै समर्पितम्।

राष्ट्रीय परीक्षण एजेंसी इत्यनेन मङ्गलवासरे प्रकाशिते वक्तव्ये उक्तं यत् ३ मईदिने आयोजितायाः नीट-यूजी २०२६ परीक्षायाः प्रक्रिया वर्तमान-स्थितौ यथावत् स्थापयितुं न शक्यते। पारदर्शिता, निष्पक्षता तथा परीक्षा-प्रणाल्यां छात्राणां विश्वासस्य संरक्षणार्थं परीक्षा-निरसनस्य पुनः आयोजनस्य च निर्णयः कृतः। नवीन-परीक्षा-तिथिः तथा पुनः प्रकाशितानां प्रवेश-पत्राणां कार्यक्रमः शीघ्रमेव आधिकारिक-माध्यमैः घोषितः भविष्यति।

राष्ट्रियपरीक्षणएजेंसीद्वारा अभ्यर्थिभ्यः अभिभावकेभ्यश्च केवलम् आधिकारिक-सूचनासु विश्वासं कर्तुं तथा सामाजिक-माध्यमेषु प्रसारिताभ्यः अपुष्ट-समाचाराभ्यः दूरं स्थितुं प्रार्थितम्। वक्तव्ये उक्तं यत् सरकारेण विषयस्य विस्तृत-अन्वेषणं केंद्रीय अन्वेषण ब्यूरो संस्थायै समर्पयितुं निर्णयः कृतः, तथा राष्टियपरीक्षणएजेंसी अन्वेषण-संस्थायै सर्वाणि आवश्यक-प्रपत्राणि, अभिलेखान् तथा सहयोगं प्रदास्यति।

राष्ट्रिय परीक्षण एजेंसी इत्यनेन एतदपि स्पष्टं कृतं यत् मई २०२६ चक्रे पञ्जीकरणं कृतवन्तः अभ्यर्थिनां दत्तांशः, अभ्यर्थि-स्थितिः तथा चयनितानि परीक्षा-केन्द्राणि आगामी-पुनर्परीक्षायै मान्यानि भविष्यन्ति। अस्य कृते पुनः पञ्जीकरणस्य आवश्यकता न भविष्यति तथा किमपि अतिरिक्त-परीक्षा-शुल्कम् अपि न ग्राह्यं भविष्यति।

संस्थया उक्तं यत् छात्रैः पूर्वमेव समर्पितं परीक्षा-शुल्कं प्रत्यावर्तितं भविष्यति तथा पुनर्परीक्षा राष्ट्रिय परीक्षण एजेंसी स्वस्य आन्तरिक-संसाधनैः आयोजयिष्यति।संस्थया स्वीकृतं यत् पुनर्परीक्षया छात्राणां तेषां परिवाराणां च असुविधा भविष्यति, किन्तु परीक्षा-प्रणाल्यां विश्वासस्य संरक्षणार्थम्एषः उपायः आवश्यकः आसीत्।

-------------

हिन्दुस्थान समाचार