Enter your Email Address to subscribe to our newsletters

काठमाण्डू-नगरम्, १२ मईमासः (हि.स.)। नेपाल-देशस्य बालेन्द्र-सर्वकारेण स्वस्य प्रथम-वर्षीय-नीति-तथा-कार्यक्रमे नेपालं विश्वस्तरीय-आध्यात्मिक-पर्यटन-केन्द्ररूपेण विकसितुं महत्त्वाकांक्षी-योजना सार्वजनिकीकृता। राष्ट्रपतिना संसदि प्रस्तुतायां नीति-तथा-कार्यक्रमे “देवभूमि-नेपाल” इति राष्ट्रिय-अभियानस्य संचालनस्य घोषणा कृता।
अस्य अभियानस्य अन्तर्गतं केवलं नेपाल-भारतयोः एव न, अपितु विश्वे स्थितानां हिन्दु-समुदायानां मध्ये नेपालं धार्मिक-आध्यात्मिक-पर्यटन-केन्द्ररूपेण स्थापितुं विविधाः कार्यक्रमाः सञ्चाल्यन्ते इति उक्तम्। धार्मिकं, सांस्कृतिकं तथा आध्यात्मिक-पर्यटनं प्राथमिकतां दत्त्वा नेपालं उभरन्तं वैश्विक-पर्यटन-गन्तव्यरूपेण विकसितुं नीति: स्वीकृता अस्ति।
नीति-कार्यक्रमे “आध्यात्मिक-तीर्थ-कूटनीति” इति प्रमुख-आधारेण पशुपतिनाथात् मुक्तिनाथं यावत् तथा लुम्बिनी-प्रदेशात् जनकपुरधामं यावत् तीर्थ-क्षेत्राणि अन्तर्राष्ट्रीय-स्तरे संयोजयितुं योजना अस्ति। एतेषां धार्मिक-आध्यात्मिक-स्थलानां वैश्विक-प्रचारः अपि क्रियते।
सर्वकारेण न्यूनतमं पञ्च-सहस्रं नूतन-होमस्टे-गृहाणि “नेपाल-होमस्टे” इति ब्राण्ड-इत्यनेन सह अन्तर्झाल-आरक्षण-मञ्चैः संयोजयितुं योजना कृताऽस्ति। सहैव पर्वतारोहण, ट्रेकिंग, राफ्टिंग, पैराग्लाइडिंग, बन्जी-जम्प तथा स्काइडाइविंग इत्यादीनां साहसिक-पर्यटन-क्षेत्राणां आधारभूत-सुविधाः तथा सुरक्षा-मानदण्डाः सुदृढीकर्तुं अपि घोषणा कृता।
हिन्दुस्थान समाचार / अंशु गुप्ता