Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 मईमासः (हि.स.)।
दिल्ल्याः उपराज्यपालस्य तरनजीत सिंह संधोः उपस्थितौ मंगलवासरे दिल्ली-पुलिसदलस्य “ऑपरेशन विश्वास” इत्यस्य अन्तर्गतं १२,६०० अधिकानि चोरितानि पुनःप्राप्तानि चलदूरवाणीयन्त्राणि दिल्ली-विश्वविद्यालयस्य क्रीडापरिसरे आयोजिते कार्यक्रमे तेषां स्वामिभ्यः प्रत्यर्पितानि। अस्मिन् अवसरे दिल्ली-पुलिस-आयुक्तः सतीश गोलचा सहिताः अन्ये पुलिस-अधिकारी उपस्थिताः आसन्।
उपराज्यपालः सामाजिकमाध्यमे “एक्स” इत्यत्र लेखं प्रकाशित्य उक्तवान् यत् अद्य नागरिकानां मुखेषु हर्षं दृष्ट्वा अत्यन्तं प्रसन्नता अनुभूता, यतः १२,६०० अधिकानि पुनःप्राप्तानि चलदूरवाणी-यन्त्राणि तेषां वास्तविक-स्वामिभ्यः प्रत्यर्पितानि। “ऑपरेशन विश्वास” इत्यस्य अन्तर्गतं सञ्चालितम् एतत् विशालम् अभियानं प्रत्येकस्य जनस्य कृते प्रभावी शासनव्यवस्थां पुलिसव्यवस्थां च सुनिश्चितीकर्तुं अस्माकं प्रतिबद्धतायाः प्रमाणम् अस्ति। तेन उक्तं यत् प्रधानमन्त्री नरेन्द्र मोदी इत्यस्य “विकसित भारत” इति दृष्टिकोणेन प्रेरिताः वयं प्रौद्योगिकीं सशक्तीकरणस्य विश्वासस्य च साधनरूपेण उपयुञ्ज्महे। अद्य चलदूरवाणी-यन्त्रं कस्यचित् व्यक्तेः स्मृतीनां, कार्यस्य, डिजिटल-पहचानस्य च महत्त्वपूर्णः स्रोतः अस्ति। तत् पुनः प्रत्यर्पणं अधिकउत्तरदायिनः नागरिककेन्द्रितस्य समाजस्य निर्माणदिशि एकः महत्त्वपूर्णः चरणः अस्ति।
उपराज्यपालेन दिल्ली-पुलिसदलस्य अथकप्रयत्नानां प्रशंसा कृता तथा अस्मिन् वर्षे ७४ प्रतिशतस्य प्रभावशालिनः पुनर्प्राप्तिदरस्य सिद्ध्यर्थं अभिनन्दनं प्रदत्तम्। तेन उक्तं यत् “अनेन स्पष्टः संदेशः प्राप्यते यत् अवैधरूपेण गृहीता काचिदपि वस्तु अन्विष्टा भविष्यति तथा स्वस्वामिने प्रत्यर्पिता भविष्यति।” उपराज्यपालः उक्तवान् यत् सुरक्षितां, आधुनिकां, विधिशासननिष्ठां विकसितां दिल्लीं निर्मातुमेव अस्माकं लक्ष्यं वर्तते।
---------------
हिन्दुस्थान समाचार