प्रधानमंत्रिणो वैश्विक संकटे देशवासिभ्यः आह्वानम्,अत्र अवधानं समेषां दायित्वम् : उप मुख्यमंत्री अरुण सावः
-देशहितस्य प्रकरणेषु विपक्षं कुरुते दुर्भाग्यपूर्णां राजनीतिम् : उपमुख्यमन्त्री अरुणसावः रायपुरम् 12 मईमासः (हि.स.)। छत्तीसगढ़स्य उपमुख्यमन्त्री अरुण सावोऽद्य मंगलवासरे एकं वक्तव्यं प्रकाशित्य उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी देशवासिन
उप मुख्यमंत्री  अरुण साव


-देशहितस्य प्रकरणेषु विपक्षं कुरुते दुर्भाग्यपूर्णां राजनीतिम् : उपमुख्यमन्त्री अरुणसावः

रायपुरम् 12 मईमासः (हि.स.)।

छत्तीसगढ़स्य उपमुख्यमन्त्री अरुण सावोऽद्य मंगलवासरे एकं वक्तव्यं प्रकाशित्य उक्तवान् यत् प्रधानमन्त्री नरेन्द्र मोदी देशवासिनः वैश्विकपरिस्थितीनां परिप्रेक्ष्ये पेट्रोल, डीजल, पेट्रोलियमपदार्थानां रासायनिकउर्वरकाणां च उपयोगं न्यूनीकर्तुं आग्रहं कृतवान्। तेन उक्तं यत् देशे यदा यदा कठिनपरिस्थितयः आगच्छन्ति, तदा नागरिकानां सहयोगेन एव तासां प्रभावी समाधानं सम्भवति।

साव रायपुरे मंगलवासरे उक्तवान् यत् देशं महान् सक्षमं च निर्मातुं नागरिकानामेव सर्वाधिकमहत्त्वपूर्णा भूमिका भवति। तेन उक्तं यत् प्रधानमन्त्री मोदी-महोदयस्य आह्वानस्य पालनं अस्माकं सर्वेषां दायित्वम् अस्ति। प्रत्येकेन नागरिकेन देशहिताय तस्य आग्रहस्य पालनं करणीयम्।

उपमुख्यमन्त्री उक्तवान् यत् पूर्वमपि विभिन्नैः प्रधानमन्त्रिभिः देशहिताय जनसामान्यस्य सहयोगः याचितः आसीत्। पण्डित जवाहरलाल नेहरू तथा लालबहादुर शास्त्री अपि देशवासिनः सहयोगार्थम् आह्वानं कृतवन्तौ। तेन उक्तं यत् वैश्विकमहामारी-कोरोनाकाले अपि प्रधानमन्त्री मोदी-महोदयस्य आह्वाने देशवासिनः सरकारस्य समर्थनं कृत्वा समष्टिरूपेण कोरोना-सदृश्याः चुनौत्याः सामना कृतवन्तः।

साव उक्तवान् यत् प्रधानमन्त्रिणः एषः आग्रहः देशं सुदृढं सक्षमं आत्मनिर्भरं च कर्तुं आवश्यकः अस्ति। तेन आरोपः कृतः यत् इण्डी-गठबन्धनं कांग्रेस-दलञ्च अस्मिन् विषये अपि राजनीतिं कुर्वतः, यत् दुर्भाग्यपूर्णम् अस्ति। विपक्षस्य एषः व्यवहारः तेषां देशहितस्य प्रति नकारात्मकचिन्तनं प्रदर्शयति।

---------------

हिन्दुस्थान समाचार