भाजपाध्यक्षो नितिननवीनः 18 मई तमे दिनांके आगमिष्यति ओडिशाम्
भुवनेश्वरम्, 12 मईमासः (हि.स.)। भारतीय जनता पार्टी दलस्य राष्ट्रियाध्यक्षः नितिन नवीन १८ मईदिने ओडिशाराज्यस्य परिभ्रमणाय आगमिष्यति। भाजपायाः राष्ट्रियाध्यक्षपदस्य दायित्वं स्वीकृत्य अनन्तरम् एषः तस्य प्रथमः ओडिशा-दौरः भविष्यति। पार्टी-सूत्राणां अन
नितिन नवीन


भुवनेश्वरम्, 12 मईमासः (हि.स.)। भारतीय जनता पार्टी दलस्य राष्ट्रियाध्यक्षः नितिन नवीन १८ मईदिने ओडिशाराज्यस्य परिभ्रमणाय आगमिष्यति। भाजपायाः राष्ट्रियाध्यक्षपदस्य दायित्वं स्वीकृत्य अनन्तरम् एषः तस्य प्रथमः ओडिशा-दौरः भविष्यति।

पार्टी-सूत्राणां अनुसारं राष्ट्रियाध्यक्षः भुवनेश्वरस्थिते भाजपायाः प्रदेश-मुख्यालये आयोजिते जिला-स्तरीय-प्रशिक्षण-कार्यक्रमे सहभागं करिष्यति। अस्मिन् कार्यक्रमे दलस्य वरिष्ठ-नेतारः तथा जिला-प्रतिनिधयः सहभागं करिष्यन्ति इति सम्भावना अस्ति। अस्मिन् सम्मेलने संगठनात्मक-रणनीतिः, जनसम्पर्कः तथा दलस्य आगामी-कार्यक्रमान् प्रति चर्चा भविष्यति।

उपवेशने भाजपायाः वरिष्ठ-नेतारः, प्रदेश-पदाधिकारिणः, जिला-अध्यक्षाः, मण्डल-अध्यक्षाः सहितं राज्यस्य विविध-प्रदेशेभ्यः अनेकाः प्रमुख-नेतारः सहभागं करिष्यन्ति। अस्य दौरस्य विषये व्यापक-स्तरे सज्जा क्रियमाणा अस्ति।

---------------

हिन्दुस्थान समाचार