सार्वजनिक-क्षेत्रस्य धनागाराणां शुद्ध-लाभः २०२५-२६-वित्तवर्षे ११ प्रतिशतं वर्धित्वा १.९८ लक्ष-कोटि-रूप्यकाणि अभवत् - वित्त-मन्त्रालयः
नवदेहली, १२ मईमासः (हि.स.)। सार्वजनिक-क्षेत्रस्य धनागाराणां (पीएसबी) सुदृढं प्रदर्शनं वित्तवर्षे २०२५-२६ अपि निरन्तरं प्रवृत्तम् आसीत्। अस्मिन् काले धनागारैः परिसम्पत्ति-गुणवत्तायां संशोधनं कृत्वा अभिलेखीयः लाभः अर्जितः। एतेषां धनागाराणां वित्तवर्ष
वित्त मंत्रालय के लोगो का प्रतीकात्मक चित्र


नवदेहली, १२ मईमासः (हि.स.)। सार्वजनिक-क्षेत्रस्य धनागाराणां (पीएसबी) सुदृढं प्रदर्शनं वित्तवर्षे २०२५-२६ अपि निरन्तरं प्रवृत्तम् आसीत्। अस्मिन् काले धनागारैः परिसम्पत्ति-गुणवत्तायां संशोधनं कृत्वा अभिलेखीयः लाभः अर्जितः। एतेषां धनागाराणां वित्तवर्षे २०२५-२६ मध्ये १.९८ लक्ष-कोटि-रूप्यकाणां अद्यावधि-सर्वाधिकः शुद्ध-लाभः अभिलेखितः।

वित्त-मन्त्रालयेन मङ्गलवासरे प्रकाशिते वक्तव्ये उक्तं यत् एतत् निरन्तरं चतुर्थं वर्षम् अस्ति यदा सर्वकारीय-धनागाराः लाभस्थितौ सन्ति। मन्त्रालयस्य अनुसारं परिसम्पत्ति-गुणवत्तायाः संशोधनम्, ऋणस्य स्वस्थ-विस्तारः, आयवृद्धिश्च वित्तवर्षे २०२५-२६ मध्ये सर्वकारीय-धनागाराणां लाभप्रदतायां योगदानं कृतवन्तः।

मन्त्रालयेन उक्तं यत् धनागाराणाम् आहत्य परिचालन-लाभः ३.२१ लक्ष-कोटि-रूप्यकाणि प्राप्तवान्, यदा कुल-शुद्ध-लाभे वार्षिक-आधारेण ११.१ प्रतिशत-वृद्धिः अभवत्। एषः ऐतिहासिकरूपेण १.९८ लक्ष-कोटि-रूप्यकाणां उच्चस्तरं प्राप्तवान्। एवं सार्वजनिक-क्षेत्रस्य धनागारेषु निरन्तरं चतुर्थवर्षे लाभप्रदता अभवत्।

सर्वकारीय-धनागाराणां आहत्य व्यापारः ३१ मार्चमासः २०२६ पर्यन्तं २८३.३ लक्ष-कोटि-रूप्यकाणि प्राप्तवान्, यत् गतवर्षस्य अपेक्षया १२.८ प्रतिशत-वृद्धिं दर्शयति। अपरतः आहत्य निक्षेप-राशिः वार्षिक-आधारेण १०.६ प्रतिशतं वर्धित्वा १५६.३ लक्ष-कोटि-रूप्यकाणि अभवत्, यत् निक्षेपकर्तॄणां निरन्तर-विश्वासस्य धनागाराणां सुदृढ-संसाधन-संग्रहस्य च परिणामः अस्ति।

वित्त-मन्त्रालयस्य अनुसारं धनागाराणां आहत्य ऋणेषु वार्षिक-आधारेण १५.७ प्रतिशत-वृद्धिः अभिलेखिता, एतत् १२७ लक्ष-कोटि-रूप्यकाणि अभवत्। अस्मिन् खुद्रा-कृषि-सूक्ष्म-लघु-मध्यम-उद्यम-क्षेत्रेषु सुदृढा वृद्धिः अभवत्। एतत् अर्थव्यवस्थायाः विविध-क्षेत्रेषु ऋणस्य निरन्तर-याचनां सूचयति।

अतिरिक्तरूपेण सार्वजनिक-क्षेत्रस्य धनागारैः परिसम्पत्ति-गुणवत्तायां उल्लेखनीयः सुधारः कृतः तथा च अद्यावधि-सर्वन्यूनः अनुत्पादक-परिसम्पत्ति-दरः अभिलेखितः। एतेषां धनागाराणां सकल-एनपीए-अनुपातः न्यूनत्वेन १.९३ प्रतिशतं जातः तथा शुद्ध-एनपीए-अनुपातः अपि ३१ मार्चमासः २०२६ पर्यन्तं न्यूनत्वेन ०.३९ प्रतिशतं जातः, यः ऐतिहासिकरूपेण न्यूनतमः स्तरः अस्ति।

मन्त्रालयेन उक्तं यत्, “सार्वजनिक-क्षेत्रस्य धनागाराः वित्तवर्षे २०२५-२६ मध्ये सुदृढं वित्तीय-प्रदर्शनं निरन्तरं प्रदर्शितवन्तः, यत् निरन्तर-व्यापार-वृद्धिं, उन्नत-परिसम्पत्ति-गुणवत्तां, अभिलेखीय-लाभप्रदतां, सुदृढ-पूंजी-स्थितिं च प्रतिबिम्बयति।” मन्त्रालयेन अग्रे उक्तं यत् एतत् उन्नतं प्रदर्शनं तीव्रतया वर्धमानायाः भारतीय-अर्थव्यवस्थायाः ऋण-आवश्यकतानां पूर्तौ एतेषां पीएसयू-धनागाराणां स्थिरतां वर्धितां संस्थागत-क्षमतां च सिद्धयति।

हिन्दुस्थान समाचार / अंशु गुप्ता