Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 12 मईमासः, (हि.स.)।
केन्द्रीयसड़कपरिवहनमार्गमन्त्री नितिन गडकरी अद्य अत्र उक्तवान् यत् असमराज्ये प्रायः द्विलक्षकोटिरूप्यकाणां आधारभूतसंरचनापरियोजनाः प्रक्रियायां सन्ति। तेन विश्वासः व्यक्तीकृतः यत् हिमंत बिस्व सरमा नेतृत्वयुक्ता भाजपासरकारः राज्यस्य जनानां विश्वासे पूर्णतया खरी भविष्यति तथा विकासस्य गतिं अधिकं तीव्रां करिष्यति।
मुख्यमन्त्रिणः शपथग्रहणसमारोहे सहभागित्वार्थं गुवाहाटीनगरम् आगतः गडकरी संवाददातृभ्यः उक्तवान् यत् असमस्य जनतया निरन्तरं तृतीयवारं भारतीयजनतापक्षे विश्वासः प्रदर्शितः। तेन उक्तं यत् राज्ये विकासकार्याणि निरन्तरं प्रवर्तिष्यन्ते तथा केन्द्रसरकारः असमं आर्थिकरूपेण अधिकं सुदृढं कर्तुं प्रतिबद्धा अस्ति। गडकरी उक्तवान् यत् तस्य मन्त्रालयस्य पक्षतः एव प्रायः द्विलक्षकोटिरूप्यकाणां परियोजनानां योजना सज्जीक्रियते। एताभिः परियोजनाभिः राज्ये सड़कसम्पर्कः, परिवहनव्यवस्था तथा आर्थिकक्रियाकलापाः नूतनगतिं प्राप्स्यन्ति।
उल्लेखनीयं यत् भाजपानेतृत्वयुक्ता राष्ट्रियजनतान्त्रिकगठबन्धनस्य सरकारः निरन्तरं तृतीयवारम् असमे सत्तां स्वीकर्तुं गच्छति। डॉ. हिमंत बिस्व सरमा द्वितीयवारं मुख्यमन्त्रिपदस्य शपथं गृह्णीयात्। अस्मात् पूर्वं भाजपातथा एनडीए विधायकदलस्य उपवेशने हिमंत बिस्व सरमा सर्वसम्मत्या नेता निर्वाचितः। उपवेशने असम गण परिषद् तथा बोडोलैंड पीपुल्स फ्रंट सहितानां सहयोगिदलानां वरिष्ठनेतारः उपस्थिताः आसन्। शपथग्रहणात् पूर्वं सरमा घोषितवान् यत् रामेश्वर तेली, अतुल बोरा, चरण बोड़ो तथा अजंता नेओग मन्त्रिपदस्य शपथं गृह्णीयुः। सहैव रंजीत दास असमविधानसभाध्यक्षपदाय एनडीएपक्षस्य अभ्यर्थी घोषितः अस्ति।
-----------
हिन्दुस्थान समाचार / Dheeraj Maithani