प्रयागराज-जनपदस्य अनुसूचित-जातीयानां १४ जनानां कृते अजा-पालन-योजनायाः लाभः प्रदास्यते
प्रयागराज-जनपदम्, १२ मईमासः (हि.स.)। उत्तरप्रदेशस्य योगी-सर्वकारेण अनुसूचित-जातीयानां आर्थिक-स्थितेः सुदृढीकरणाय अजा-पालन-योजना सञ्चाल्यते। सर्वकारेण वित्तीय-वर्षे २०२६-२७ मध्ये अनुसूचित-जातेः १४ पात्र-जनानां कृते अजा-पालन-योजनायाः लाभ-प्रदानस्य लक
बकरी पालन का छाया चित्र


प्रयागराज-जनपदम्, १२ मईमासः (हि.स.)। उत्तरप्रदेशस्य योगी-सर्वकारेण अनुसूचित-जातीयानां आर्थिक-स्थितेः सुदृढीकरणाय अजा-पालन-योजना सञ्चाल्यते। सर्वकारेण वित्तीय-वर्षे २०२६-२७ मध्ये अनुसूचित-जातेः १४ पात्र-जनानां कृते अजा-पालन-योजनायाः लाभ-प्रदानस्य लक्ष्यं निर्धारितम्। पशुपालन-विभागेन अस्य विषये आवेदनानि आमन्त्रितानि। एषा सूचना प्रयागराज-जनपदस्य मुख्य-पशु-चिकित्साधिकाऱिणा डॉ.शिवनाथ-यादवेन प्रदत्ता।

तेन उक्तं यत् चयन-प्रक्रिया शासनस्य दिशा-निर्देशानुसारं गठितया समित्या करिष्यते। आवेदन-पत्र-समर्पणस्य अन्तिम-तिथिः १५ मईमास: २०२६ इति निर्धारिताऽस्ति।

तेन अवगतं कारितं यत् अनुसूचित-जातीय-लाभार्थिनां कृते अजा-पालन-योजनायाः अन्तर्गतं आवेदनानि आमन्त्रितानि। एषा योजना राज्य-योजनायाः अन्तर्गतं सञ्चाल्यते, यस्यां लाभार्थिभ्यः अनुदानस्य लाभः प्रदास्यते। प्रयागराज-जनपदस्य कृते १४ लाभार्थिनां लक्ष्यं निर्धारितम् अस्ति। प्रत्येकस्मै चयनित-लाभार्थिने पञ्च अजाः तथा एकः अजः प्रदास्यते। योजनायाः एकक-व्ययः ६० सहस्र-रूप्यकाणि निर्धारितः अस्ति, यस्मिन् १० प्रतिशत-अंशदानं लाभार्थिना स्वयमेव वोढव्यम्।

योजनायाः अन्तर्गतं चयनित-लाभार्थिभ्यः पशुपालन-विभागेन प्रशिक्षणम् अपि प्रदास्यते। आवेदनार्थं अभ्यर्थी प्रयागराज-जनपदस्य निवासी भवेत् तथा तस्य आयुः १८ वर्षेभ्यः अधिका भवेत्। आवेदनानि केवलं अनुसूचित-जाति-वर्गस्य बेरोजगार-महिला-पुरुष-अभ्यर्थिभ्यः आमन्त्रितानि।

आवेदन-पत्रेण सह आधार-पत्रम्, जाति-प्रमाण-पत्रम्, धनागार-पासबुक-इत्यस्य प्रतिलिपिः, निवास-प्रमाण-पत्रम्, पासपोर्ट-परिमाणस्य छायाचित्रम् तथा शपथ-पत्रम् संलग्नं करणीयम्। इच्छुक-अभ्यर्थिनः स्वस्य सम्बन्धित-विकास-खण्डस्य पशु-चिकित्साधिकारी-कार्यालये आवेदन-पत्रं समर्पयितुं शक्नुवन्ति।

हिन्दुस्थान समाचार / अंशु गुप्ता