फीफा-वर्ल्ड-कप् २०२६ कृते अर्जेण्टीना-देशस्य प्रारम्भिक-दलं घोषितम्, लियोनेल-मेसी अपि सम्मिलितः
नव-दिल्ली-नगरम्, १२ मईमासः (हि.स.)। गत-विजेता अर्जेण्टीना-देशेन फीफा-वर्ल्ड-कप् २०२६ कृते स्वस्य ५५-सदस्यीयः प्रारम्भिक-दलं घोषितम्। अमेरिका, कनाडा तथा मेक्सिको-देशेषु अग्रिम-मासे आरभ्यमाणे अस्मिन् प्रतियोगितायां अर्जेण्टीना-देशः पुनः विजयोद्देशेन
फीफा विश्व कप ट्रॉफी के साथ मेसी और अर्जेंटीना के खिलाफ


नव-दिल्ली-नगरम्, १२ मईमासः (हि.स.)। गत-विजेता अर्जेण्टीना-देशेन फीफा-वर्ल्ड-कप् २०२६ कृते स्वस्य ५५-सदस्यीयः प्रारम्भिक-दलं घोषितम्। अमेरिका, कनाडा तथा मेक्सिको-देशेषु अग्रिम-मासे आरभ्यमाणे अस्मिन् प्रतियोगितायां अर्जेण्टीना-देशः पुनः विजयोद्देशेन अवतीर्यते। दलस्य प्रमुखः क्रीडकः तथा नायक: लियोनेल-मेसी अपि दलस्य सदस्यत्वेन समाविष्टः अस्ति।

मुख्य-प्रशिक्षकेन लियोनेल-स्कॉलोनी इत्यनेन स्पष्टतया उक्तं यत् विश्वकप्-प्रतियोगितायां मेसी-क्रीडनस्य अन्तिम-निर्णयः पूर्णतया इंटर-मियामी-दलस्य एतस्मिन् अग्र-क्रीडके एव निर्भरं भविष्यति।

अन्यतः प्रसिद्धः क्रीडकः पाउलो-डायबाला प्रारम्भिक-दले स्थानं न प्राप्तवान्, येन पादकन्दुक-प्रेमिणः आश्चर्यचकिताः अभवन्।

विश्वकप् २०२६ प्रतियोगितायां अर्जेण्टीना-दलं ‘ग्रुप्-जे’ इत्यस्मिन् स्थापितः अस्ति, यत्र तस्य स्पर्धा अल्जीरिया, ऑस्ट्रिया तथा जॉर्डन-देशैः सह भविष्यति। दलं स्वस्य अभियानस्य आरम्भं १६ जून-दिनाङ्के अल्जीरिया-देशस्य विरुद्धं करिष्यति।

हिन्दुस्थान समाचार / अंशु गुप्ता