Enter your Email Address to subscribe to our newsletters

चेन्नई, 12 मईमासः (हि.स.)।तमिलनाडुविधानसभायाः अध्यक्षपदे जेसीटीप्रभाकरः उपाध्यक्षपदाय च एम्. रविशङ्करः निर्विरोधरूपेण चयनितौ। ततः परं प्रभाकरः अध्यक्षस्य आसनं स्वीकृत्य सदनस्य कार्यवाह्याः संचालनं कृतवान्।
अस्य पूर्वं सोमवासरे मुख्यमन्त्री विजयः, विपक्षनेता उधयनिधिस्टालिन् सहिताः सर्वे विधायकाः विधानसभासदस्यत्वेन शपथं स्वीकृतवन्तः।
विधानसभासत्रस्य द्वितीयदिने विधानसभाध्यक्षस्य उपाध्यक्षस्य च निर्वाचनं सम्पन्नम्। अन्येन कस्यापि नामाङ्कनपत्रं न समर्पितम् इति कारणेन एकमात्राभ्यर्थी जेसीडीप्रभाकरः विधानसभाध्यक्षत्वेन तथा रविशङ्करः उपाध्यक्षत्वेन निर्विरोधनिर्वाचितौ घोषितौ।
ततः परं परम्परानुसारं सदननेता सेन्गोट्टायन् तथा विपक्षनेता उदयनिधिस्टालिन् उभाभ्यां हस्ताभ्यां जेसीडीप्रभाकरं गृहीत्वा अध्यक्षस्य आसनपर्यन्तं नीतवन्तौ तथा तस्मै आसनग्रहणं कारितवन्तौ।
अनन्तरं मुख्यमन्त्री, विपक्षनेता तथा विभिन्नदलानां नेतारः प्रभाकरं अभिनन्दितवन्तः। अस्मिन् अवसरे कामराजः उक्तवान् यत् मुख्यमन्त्री विजयः आगामिपञ्चवर्षपर्यन्तं उत्तमं शासनं ददातु, तथा च तमिलगवेत्रिकषगमशासनस्य प्रति स्वसमर्थनं निरन्तरं स्थापयिष्यति इति अपि तेन उक्तम्।
---------------
हिन्दुस्थान समाचार