उत्तर प्रदेशस्य 156 केन्द्रेषु मुक्त विश्वविद्यालयस्य परीक्षाः 14 मईतः
-चत्वारः कारागाराश्चापि निर्मास्यन्ते परीक्षा केन्द्रम् -त्रिषु पालिकासु 65सहस्रं परीक्षार्थिनो दास्यन्ति परीक्षाम् प्रयागराजः, 12 मईमासः (हि.स)।उत्तरप्रदेश राजर्षि टण्डन मुक्तविश्वविद्यालयस्य, प्रयागराजस्य जून २०२६ सत्रस्य परीक्षाः प्रदेशस्य १
मुक्त विवि


-चत्वारः कारागाराश्चापि निर्मास्यन्ते परीक्षा केन्द्रम्

-त्रिषु पालिकासु 65सहस्रं परीक्षार्थिनो दास्यन्ति परीक्षाम्

प्रयागराजः, 12 मईमासः (हि.स)।उत्तरप्रदेश राजर्षि टण्डन मुक्तविश्वविद्यालयस्य, प्रयागराजस्य जून २०२६ सत्रस्य परीक्षाः प्रदेशस्य १५६ केन्द्रेषु १४ मई दिनाङ्कात् प्रारभन्ते। एतेषु परीक्षा-केन्द्रेषु ४ जिला- तथा केन्द्रीय-कारागाराः अपि समाविष्टाः सन्ति। परीक्षासु प्रायः ६५ सहस्राणि परीक्षार्थिनः सहभागित्वं करिष्यन्ति।

एतां सूचनां मंगलवासरे परीक्षानियन्त्रकः प्रोफेसर जी. के. द्विवेदी प्रदत्तवान्। तेन उक्तं यत् परीक्षाः ३ जून दिनाङ्कपर्यन्तं सञ्चालिताः भविष्यन्ति। परीक्षार्थिनां सुविधार्थं विश्वविद्यालयस्य जालपुटे समयसारिणी उपारोपिता अस्ति। तेन उक्तं यत् परीक्षाः त्रिषु पालिषु प्रातः ७ वादनात् १० वादनपर्यन्तं, ११ वादनात् २ वादनपर्यन्तं तथा ३ वादनात् ६ वादनपर्यन्तं आयोजिताः भविष्यन्ति। तेन एतदपि सूचितं यत् सर्वविषयाणां परीक्षार्थिनां प्रवेशपत्राणि परीक्षातिथेः समयविवरणस्य च सह ऑनलाइनरूपेण उपलब्धानि कृतानि सन्ति। तानि डाउनलोड कृत्वा परीक्षार्थिनः परीक्षासु सम्मिलिताः भवितुं शक्नुवन्ति।

परीक्षानियन्त्रकेण उक्तं यत् परीक्षा-केन्द्र-निर्धारण-समित्या राज्यसरकारेण निर्गतानां निर्देशानां विश्वविद्यालयेन निर्धारितमानकानां च अनुपालनपूर्वकं प्राप्तानां आवेदनपत्राणां सम्यक् विचारानन्तरं सम्पूर्णे उत्तरप्रदेशे १५६ परीक्षा-केन्द्राणां निर्धारणं कृतम्। तेषु प्रयागराज-क्षेत्रे सर्वाधिकानि २६ परीक्षा-केन्द्राणि निर्मितानि। एतदतिरिक्तं गोरखपुर-क्षेत्रे २१, वाराणसी-क्षेत्रे २४, अयोध्या-क्षेत्रे १८, लखनऊ-क्षेत्रे ११, बलिया-क्षेत्रे १४, कानपुर-क्षेत्रे ८, आगरा-क्षेत्रे ९, झांसी-क्षेत्रे ९, मेरठ-क्षेत्रे ५, गाजियाबाद-क्षेत्रे ४ तथा बरेली-क्षेत्रे ३ परीक्षा-केन्द्राणि निर्मितानि। विश्वविद्यालयः कारागारबन्दिनां शिक्षायै निरन्तरं प्रयत्नशीलः अस्ति। अस्मिन् वारे सम्पूर्णप्रदेशे ४ जिला- तथा केन्द्रीय-कारागारेषु — गोरखपुर, बरेली, बस्ती तथा फतेहगढ़-फर्रूखाबाद-केन्द्रीयकारागारे — कारागारबन्दिभ्यः परीक्षाः दीयन्ते।

कुलपतिः प्रो सत्यकामो मंगलवासरे परीक्षायाः व्यवस्थापनस्य निरीक्षणं कृतवान्। सम्पूर्णे उत्तरप्रदेशे परीक्षां पारदर्शितया सकुशलं सम्पन्नं कर्तुं विशेषव्यवस्था कृता अस्ति। सम्पूर्णप्रदेशे नकलविहीनपरीक्षानां सञ्चालनार्थम् उड्डायकदलस्य पर्यवेक्षकदलस्य च गठनं कृतम्। ग्रीष्मकाले प्रदेशस्य कस्मिंश्चित् केन्द्रे कस्मैचित् परीक्षार्थिने कापि असुविधा मा भवेत्, इत्यर्थं शीतलजलस्य वातावरणानुकूलकक्षाणां च व्यवस्थां कर्तुं निर्देशाः प्रदत्ताः।

जनसम्पर्काधिकारी डॉ. प्रभातचन्द्र मिश्र उक्तवान् यत् परीक्षार्थिनां समस्याः शीघ्रं समाधानं कर्तुं परीक्षानियन्त्रककार्यालये क्षेत्रीयकेन्द्रानुसारं सहायता-पटलस्य स्थापना कृता अस्ति। यत्र परीक्षार्थिनां विविधप्रकारस्य समस्याः समाधानं प्राप्नुवन्ति। परीक्षानियन्त्रकस्य पर्यवेक्षणे परीक्षा-विभागस्य दलं पूर्णतया सज्जं वर्तते।

---------------

हिन्दुस्थान समाचार