Enter your Email Address to subscribe to our newsletters

जिनेवानगरम्, १२ मईमासः (हि.स.)। विश्व-स्वास्थ्य-सङ्घटनेन (डब्ल्यूएचओ) उक्तं यत् क्रूज-यानस्य उपरि प्रसृतस्य घातक-हंटावायरस-सङ्क्रमणस्य रोगिणः लक्षणानि प्रादुर्भवनस्य प्रारम्भिक-काले अत्यधिकं संक्रामकाः भवन्ति। एतस्मात् कारणात् सङ्क्रमितानां सम्पर्के आगतानां जनानां क्वारंटीन-करणस्य अनुशंसा अपि कृता अस्ति।
डच-ध्वज-युक्ते क्रूज-याने एमवी-होंडियस्-नाम्नि प्रसृतेन एतेन दुर्लभ-विषाणु-सङ्क्रमणेन अधुना यावत् त्रयः जनाः मृताः। यानात् निष्कासितानां यात्रिकाणां स्व-स्व-देशेषु प्रत्यागमनात् अनन्तरं सङ्क्रमणस्य सम्भावितस्य प्रसारं प्रति वैश्विकी चिन्ता वर्धिता अस्ति।
महामारी-विज्ञान-विश्लेषण-विभागस्य प्रमुखः डॉ.ओलिवियर-ले-पोलैन इत्यनेन उक्तं यत् रोगस्य प्रारम्भिक-अवस्थायामेव सङ्क्रमण-प्रसारस्य भयम् अत्यधिकं भवति। तेन उक्तं यत् प्रारम्भिक-लक्षणानि श्रमः अथवा लघु-ज्वरः इव सौम्यानि भवितुम् अर्हन्ति, किन्तु अनन्तरं स्थिति गम्भीरा भवितुम् अर्हति। अतः लक्षणानां प्रतीक्षां विना सम्भावित-सम्पर्कित-जनानां पृथक्करणम् आवश्यकम्।
विश्व-स्वास्थ्य-सङ्घटनेन याने उपस्थितानां प्रायः १५० जनानां कृते षट्-सप्ताह-दीर्घस्य क्वारंटीन-इत्यस्य अनुशंसा कृता। एषा अवधि एण्डीज-विषाणोः अधिकतम-ऊष्मायन-कालस्य अनुरूपा अस्ति, यः प्रायः ४२ दिवसात्मकः मन्यते। एण्डीज-विषाणुः हंटावायरसस्य सः प्रकारः अस्ति यः मनुष्येभ्यः मनुष्येषु प्रसर्तुं शक्नोति।
अनेक-देशैः डब्ल्यूएचओ-विचारं स्वीकृत्य कठोर-क्वारंटीन-व्यवस्था प्रवर्तिता अस्ति। जर्मनी, ब्रिटेन, स्विट्जरलैण्ड तथा ग्रीस इत्येतैः ४५-दिनात्मक-निगराण्याः निर्णयः कृतः, यदा ऑस्ट्रेलिया तथा फ्रान्स इत्येताभ्यां क्रमशः त्रि-सप्ताहात्मकः तथा द्वि-सप्ताहात्मकः न्यूनतम-निरीक्षण-कालः निर्धारितः।
किन्तु अमेरिका-देशेन स्वदेशं प्रत्यागतानां यात्रिकाणां कृते अनिवार्य-क्वारंटीन-इत्यस्य स्पष्टः निर्णयः न कृतः। डब्ल्यूएचओ-प्रमुखेन टेड्रोस्-अधानोम्-घेब्रेयेसस् इत्यनेन एतत् समस्यापूर्णम् इति उक्तम्।
डॉ.पोलैन-इत्यस्य अनुसारं क्रूज-यानस्य निरुद्ध-पर्यावरणं सङ्क्रमण-प्रसाराय अनुकूलं सिद्धम्, यतः सीमित-स्थाने बहवः जनाः सह वसन्ति स्म। एतस्मात् कारणात् सामान्य-परिस्थितिभ्यः अपेक्षया सङ्क्रमणस्य तीव्र-प्रसारस्य आशङ्का अधिका अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता