Enter your Email Address to subscribe to our newsletters

कोलकाता-नगरम्, १२ मईमास: (हि.स.)। राज्यस्य पंचायत-तथा-कृषि-विपणन-मन्त्री दिलीप-घोषः आरोपं कृतवान् यत् तृणमूल-काङ्ग्रेसस्य अधिकांशाः नेतारः भ्रष्टाचारे लिप्ताः आसन्।
मङ्गलवासरे प्रातः पत्रकारैः सह वार्तालापं कुर्वन् सः अवदत्— “तृणमूल-दलस्य प्रायः सर्वे नेतारः भ्रष्टाः सन्ति। अद्यावधि आरक्षक-सर्वकारयोः अनुमतिः न लब्धा इति कारणात् अन्वेषणं नाभवत्, किन्तु इदानीं सर्वेषां प्रकरणानां पुनः निरीक्षणम् आरभिष्यते। सर्वं परीक्षणं भविष्यति। जनाः यत् इच्छन्ति तत् एव भविष्यति।”
उल्लेखनीयम् अस्ति यत् आर्थिक-अनियमिततायाः प्रकरणे सोमवासर-रात्रौ प्रवर्तन-निदेशालयेन (ई.डी.) तृणमूल-काङ्ग्रेस-नेता सुजीत-बोसः गृहीतः। तस्य गिरफ्तारी अनन्तरं मङ्गलवासरे प्रातः मन्त्री दिलीप-घोषः एतां टिप्पणीं कृतवान्।
अपरञ्च, एस.आई.आर.-विषये सर्वोच्च-न्यायालयस्य अद्यतन-श्रवणस्य सन्दर्भे मन्त्री दिलीप-घोषः अवदत्— “येषां जनानां नामानि सूचीतः अपसारितानि, तेषां विषयेषु ट्रिब्यूनलेन एफ.आई.आर. दायित्वस्य अधिकारः प्रदत्तः अस्ति। त्रुटिः कुत्रापि सम्भवति, किन्तु एषा त्रुटिः न, अपितु तृणमूल-सदस्यैः ज्ञात्वा कृतम् इति मम मतम्।”
हिन्दुस्थान समाचार / अंशु गुप्ता