Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 12 मईमासः (हि.स.)।
पुडुचेरी मध्ये बुधवासरे एआईएनआरसी दलस्य नेता एन. रंगासामी इत्यस्य मुख्यमन्त्रिपदस्य शपथग्रहणसमारोहे भारतीय जनता पार्टी दलस्य राष्ट्रियाध्यक्षः नितिन नवीन सहभागं करिष्यति।
अस्मिन् अवसरे सः भाजपायाः विधायकैः कार्यकर्तृभिश्च सह अपि मिलिष्यति। भाजपामुख्यालयात् प्राप्तसूचनानुसारं नितिन नवीन मङ्गलवासरस्य सायंकाले पुडुचेरीं प्राप्स्यति, यत्र कार्यकर्तारः तस्य स्वागतं करिष्यन्ति। ततः सः भाजपाकार्यालयं गत्वा कार्यकर्तृभिः सह मिलिष्यति। अनन्तरं भाजपायाः नवनिर्वाचित-विधायकैः सह अपि संवादं करिष्यति।
पश्चात् भाजपाकार्यकर्तृणां परिवारजनैः सह अपि मिलिष्यति।
शपथग्रहणकार्यक्रमः लोकनिवासे आयोजितः भविष्यति, यत्र उपराज्यपालः के. कैलाशनाथन रंगासामीमहाशयाय पदस्य गोपनीयतायाश्च शपथं दास्यति। केन्द्रीयमन्त्री तथा दलस्य पुडुचेरी-निर्वाचन-प्रभारी मनसुख मंडाविया अपि शपथग्रहणसमारोहे सहभागं करिष्यति।
उल्लेखनीयम् अस्ति यत् पुडुचेरी मध्ये एआईएनआरसी दलस्य नेतृत्वे राष्ट्रिय जनतांत्रिक गठबंधन इत्यस्य सरकारः निर्मीयते। भारतीय जनता दलं गठबन्धनस्य द्वितीया बृहत् दलम् अस्ति।
---------------
हिन्दुस्थान समाचार