Enter your Email Address to subscribe to our newsletters

हरिद्वार-नगरम्, १२ मईमास: (हि.स.)। क्षेत्रे यूनां क्रीडासु प्रोत्साहनाय तेषां प्रतिभानां विकासाय च उद्देश्येन अद्य क्रिकेट-क्रीडा-सामग्री-वितरण-कार्यक्रमः आयोजितः। एषा पहलः प्रधानमन्त्री नरेन्द्र-मोदीना प्रारब्धात् “खेलो-इण्डिया” इति अभियानात् प्रेरितः।
अस्मिन् अवसरे पूर्व-भाजप-विधायकः संजय-गुप्तः अवदत् यत् क्रीडा केवलं मनोरञ्जनस्य साधनं न, अपितु युवानां व्यक्तित्व-विकासस्य महत्त्वपूर्णं माध्यमम् अस्ति। क्रीडाभिः युवानां मध्ये अनुशासनम्, आत्मविश्वासः, सङ्घभावना तथा सकारात्मक-चिन्तनं च विकसितं भवति। सः उक्तवान् यत् युवानां क्रीडासु संयोजनम् अद्यतन-आवश्यकता अस्ति, येन ते नशादि-दुर्व्यसनात् दूरं भूत्वा स्वभविष्यं सुदृढं कर्तुं शक्नुवन्ति। क्रीडा शारीरिक-मानसिक-सबलतां दत्त्वा जीवन-प्रगतेः प्रेरणाम् अपि ददाति।
क्रिकेट-किट् प्राप्य यूनां मुखेषु हर्षः उत्साहः च स्पष्टतया दृश्यते स्म। कार्यक्रमे उपस्थितैः जनैः “खेलो-इण्डिया” अभियानस्य प्रशंसा कृता तथा उक्तं यत् इत्थं प्रकारस्य प्रयत्ना: ग्राम्य-स्थानीय-स्तरे सुप्त-प्रतिभानां प्रकाशनाय महत्त्वपूर्णां भूमिकां निर्वहिष्यन्ति। अपि च भविष्ये अपि एतादृशाः कार्यक्रमाः आयोजनीयाः इति उक्तम्।
अस्मिन् अवसरे क्षेत्रीय-जनप्रतिनिधयः, क्रीडा-प्रेमिणः, अभिभावकाः तथा बहुसंख्यकाः युवा-क्रीडकाः उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता