भाजपा प्रदेश कार्यसमितेः उपवेशनमद्य, मुख्यमंत्री सायः भविष्यति सम्मिलितः
रायपुरम् 13 मईमासः (हि.स.)। मुख्यमन्त्री विष्णुदेव सायः अद्य बुधवासरे भारतीयजनतापार्टी इत्यस्य प्रदेशकार्यसमितेः सभायां सम्मिलितः भविष्यति। सः प्रातः ११ वादने भाजपा प्रदेशकार्यालयं कुशाभाऊ ठाकरे परिसरं प्राप्स्यति। यत्र सायं ५ वादनपर्यन्तं चलिष्
भाजपा प्रदेश कार्यसमिति की बैठक  फाइल फाेटाे


रायपुरम् 13 मईमासः (हि.स.)।

मुख्यमन्त्री विष्णुदेव सायः अद्य बुधवासरे भारतीयजनतापार्टी इत्यस्य प्रदेशकार्यसमितेः सभायां सम्मिलितः भविष्यति। सः प्रातः ११ वादने भाजपा प्रदेशकार्यालयं कुशाभाऊ ठाकरे परिसरं प्राप्स्यति। यत्र सायं ५ वादनपर्यन्तं चलिष्यन्त्यां भाजपा प्रदेशकार्यसमितेः सभायां सहभागं करिष्यति।

अस्यां सभायां राष्ट्रीयसहसङ्गठनमहामन्त्री शिवप्रकाशः, क्षेत्रीयसङ्गठनमहामन्त्री अजय जम्वालः, भाजपा प्रदेशाध्यक्षः किरण देवः एवं प्रदेशसङ्गठनमहामन्त्री पवन सायः मार्गदर्शनं करिष्यन्ति।

---------------

हिन्दुस्थान समाचार