विदेशमन्त्री चिली-देशस्य समकक्षीयेन सह मिलित्वा द्वैपाक्षिकसहयोगस्य विषये चर्चां करोति
नवदेहली, 13 मे-मास:। विदेशमन्त्री एस.जयशङ्करः चिली-देशस्य विदेशमन्त्रिणा फ़्राँसिस्को पेरेज़ मैक्केन्ना इत्यनेन सह मिलितवान्, यः ब्रिक्स्-देशानाम् विदेशमन्त्रिणां सभायां भागं गृहीतः अस्ति। विपणेषु स्रोतस्सु च विविधीकरणं, प्राथमिक-वस्तूनां निर्या
विदेश मंत्री डॉ एस जयशंकर ने नई दिल्ली में चिली के विदेश मंत्री फ्रांसिस्को पेरेज मैककेना से मुलाकात कर द्विपक्षीय सहयोग पर चर्चा की।


नवदेहली, 13 मे-मास:।

विदेशमन्त्री एस.जयशङ्करः चिली-देशस्य विदेशमन्त्रिणा फ़्राँसिस्को पेरेज़ मैक्केन्ना इत्यनेन सह मिलितवान्, यः ब्रिक्स्-देशानाम् विदेशमन्त्रिणां सभायां भागं गृहीतः अस्ति। विपणेषु स्रोतस्सु च विविधीकरणं, प्राथमिक-वस्तूनां निर्यातस्य प्रोत्साहनं इत्यादीनां विषयेषु नेताद्वयं चर्चां कृतवन्तौ।

अस्य द्वैपाक्षिक-सम्बन्धस्य विषये सूचयन् विदेशमन्त्री डा.एस.जयशङ्करः एक्स इत्यस्मिन् अलिखत् यत् परस्परसहयोगस्य सुदृढीकरणस्य विषये तेषां मध्ये अतीव उत्तमः संवादः अभवत् इति। अस्मिन् विपणेषु स्रोतेषु च विविधीकरणं, प्राथमिक-वस्तूनां निर्यातस्य प्रोत्साहनं, सेवा-अर्थव्यवस्थायाः सौलभ्यं इत्यादीनि विषयानि अन्तर्भवन्ति स्म। जयशङ्करः अवदत् यत् उभयदेशौ बहुपक्षीय-बहुस्तरीय-स्वरूपेषु मिलित्वा कार्यं कर्तुं सहमतौ अभवताम्।

स्मरणीयम् अस्ति यत् फ़्रांसिस्को पेरेज़् मैककेन्ना इत्येषः अत्र 14 तथा 15 मे-मासेषु आयोजितेषु ब्रिक्स-विदेश-मन्त्रिणां द्विवार्षिक-सभायां भागं ग्रहीतुं भारते अस्ति इति। विदेशमन्त्री डा.एस.जयशङ्करः अस्य सम्मेलनस्य अध्यक्षः भविष्यति। अस्मिन् ब्रज़िल्, रष्या, दक्षिण-आफ़्रिका, ईजिप्ट्, इथियोपिया, इण्डोनेशिया-देशानाम् विदेश-मन्त्रिणः सम्मिलिताः भविष्यन्ति। यू. एईतथा ईरान्-देशयोः उपविदेश-मन्त्री-स्तरस्य प्रतिनिधिदलानां उपस्थितिः अपेक्षितम् अस्ति, चीनदेशस्य शेर्पा-प्रतिनिधिदलस्य उपस्थितिः भविष्यति।

सभायां ब्रिक्स-सदस्यराष्ट्राणां विदेशमन्त्रिणः परस्पर-हितस्य वैश्विक-क्षेत्रीय-विषयेषु विचारान् विनिमयं करिष्यन्ति। कार्यक्रमस्य भागरूपेण सर्वेषाम् विदेशमन्त्रिणां संयुक्तसम्मेलनं सेवा तीर्थे प्रधानमन्त्रिणा नरेन्द्रमोदिना सह अपराह्णे 1 वादने भविष्यति। तदनन्तरं अपराह्णे 3.10 वादने द्वितीयं सत्रं, अपराह्णे 7 वादने भारतमण्डपे डा.जयशङ्करस्य रात्रिभोजनं च भविष्यति। तृतीयं सत्रं प्रातः 10 वादने 15 मे-मासे इत्यत्र आरभ्यते।

Hindusthan Samachar / Divya Ranjan