उदयपुरस्य 90 बालकार्मिकाः सूरत-निर्माणिभ्यः रक्षिताः
उदयपुर-मण्डलस्य जनजातीयक्षेत्राणां 90 बालकाः गुजरातराज्यस्य सूरत-नगरस्य वस्त्र-निर्माणीतः रक्षिताः सन्ति। एन्टी-ह्यूमन-ट्रैफिकिङ्ग-यूनिट्-इत्यस्य, राज्य-बाल-आयोगस्य च संयुक्तदलं बुधवासरे कार्यम् आरभ्य बालकान् रक्षितवान्। रक्षिताः बालकाः 7 तः 14 वर्
बालश्रम


उदयपुर-मण्डलस्य जनजातीयक्षेत्राणां 90 बालकाः गुजरातराज्यस्य सूरत-नगरस्य वस्त्र-निर्माणीतः रक्षिताः सन्ति। एन्टी-ह्यूमन-ट्रैफिकिङ्ग-यूनिट्-इत्यस्य, राज्य-बाल-आयोगस्य च संयुक्तदलं बुधवासरे कार्यम् आरभ्य बालकान् रक्षितवान्। रक्षिताः बालकाः 7 तः 14 वर्षाणाम् मध्ये सन्ति इति कथ्यते।

सूरत-नगरस्य पूना-आरक्षक-क्षेत्रे स्थिते सीताराम-सोसैटी, मुक्तिधाम्-सोसैटी इत्यादिषु प्रायः षट्षु स्थानेषु प्रचलितेषु लघु-वस्त्रोद्योग-संस्थासु, निर्माणिषु च बालकाः कार्यं कर्तुम् आरब्धाः आसन्। केचन बालकाः शाटिकायां तन्तुव्यापारं कुर्वन्तः आसन्, यदा तु अनेके बालकाः यन्त्राणि चालयन्ति स्म। वेतनस्य स्थाने तेषां प्रतिमासं केवलं 5,000 तः 8,000 रूप्यकाणि एव प्रदत्ताः आसन्।

राज्य-बाल-आयोगस्य पूर्वसदस्यः शैलेन्द्रपाण्डेयः अवदत् यत् उदयपुर-जनपदस्य जनजातीयानां तथा आर्थिकदृष्ट्या दुर्बलानां परिवाराणां बालकानां सूरत-नगरं प्रति प्रलोभनं कृत्वा कर्मागारेषु कार्यं कर्तुम् प्रेरितम् इति प्रायः एकमासात् वार्ताः प्राप्यन्ते स्म इति। सूचनायाः पुष्टेः अनन्तरं, प्रायः 20 सदस्यानां दलस्य निर्माणं जातम्, तथा च योजनाबद्धरूपेण विभिन्नेषु स्थानेषु युगपत् आक्रमणानि कृतानि। कार्यकाले दलं फ्याक्टरि-निर्वाहकेभ्यः प्रश्नान् कर्तुम् आरभत। अपि च, बालकानां परिवारात् सूचनाः सङ्गृहीतुं शक्यन्ते यत् ते कासु परिस्थितिषु सूरत-नगरं प्रेषितवन्तः इति। प्रारम्भिकसूचनाः प्रकटयन्ति यत् अधिकांशाः बालकाः विद्यालयं परित्यज्य आर्थिक-बाधायाः कारणात् श्रमिकरूपेण कार्यं कर्तुम् आगच्छन् इति।

शैलेन्द्रपाण्डेयः अवदत् यत् 2019 तमवर्षस्य आरम्भे राज्य-बाल-आयोगेन सूरत-नगरे उदयपुरमण्डलस्य अनेकान् बालान् बालश्रमात् मोक्तुं कार्यम् अकरोत् इति। सम्प्रति सर्वे बालकाः सुरक्षित-अभिरक्षायां सन्ति।

Hindusthan Samachar / Divya Ranjan