प्रधानमंत्रिणा शक्तिसामर्थ्यसामंजस्यानां बोधितं महत्वम्
नवदिल्ली, 13 मईमासः(हि.स.)।प्रधानमन्त्रीः नरेन्द्रमोदी अद्य संस्कृतसुभाषितं सामाज्यमाध्यमे साझा कृत्वा शक्तेः सामर्थ्यस्य च सामञ्जस्यस्य महत्त्वं प्रतिपादितवान्। तेन वर्षे १९९८ तमे पोखरणे सम्पन्नान् परमाणुपरीक्षणान् भारतस्य अटूटसंकल्पस्य प्रतीकरूपे
हैदराबाद में 9,400 करोड़ रुपये की विकास परियोजनाओं के उद्घाटन, शिलान्यास और लोकार्पण कार्यक्रम को संबोधित करते हुए प्रधानमंत्री नरेन्द्र मोदी।


नवदिल्ली, 13 मईमासः(हि.स.)।प्रधानमन्त्रीः नरेन्द्रमोदी अद्य संस्कृतसुभाषितं सामाज्यमाध्यमे साझा कृत्वा शक्तेः सामर्थ्यस्य च सामञ्जस्यस्य महत्त्वं प्रतिपादितवान्। तेन वर्षे १९९८ तमे पोखरणे सम्पन्नान् परमाणुपरीक्षणान् भारतस्य अटूटसंकल्पस्य प्रतीकरूपेण अपि वर्णितम्। प्रधानमन्त्री सामाज्यमाध्यमे लिखितवान् यत् ११ मई १९९८ तमे सम्पन्नैः परमाणुपरीक्षणैः विश्वं भारतस्य दृढइच्छाशक्तेः परिचयं प्राप्तवान्। परीक्षणानन्तरं समग्रविश्वेन भारतस्य उपरि भारो निर्मितः, किन्तु भारतेन प्रदर्शितं यत् कापि शक्तिः तम् न नमयितुं शक्नोति।

प्रधानमन्त्रिणा स्वस्य लेखे संस्कृतसुभाषितम् अपि साझा कृतम्यत् एवं परस्परापेक्षा शक्तिशक्तिमतोः स्थिता ।

न शिवेन विना शक्तिर्न शक्त्या विना शिवः।। ”

अस्य सुभाषितस्य अर्थः अस्ति यत् शक्ति: सामर्थ्यं च परस्परं पूरकौ स्तः। यथा शिवं विना शक्तिः अधूरी भवति तथा शक्तिं विना शिवः अपि अधूरः भवति, तथैव कस्यापि लक्ष्यस्य सिद्ध्यर्थं शक्तेः तस्याः समुचितप्रयोगस्य च सन्तुलनम् अत्यावश्यकम्।

---------------

हिन्दुस्थान समाचार