Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, १३ मईमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ.मोहन-यादवः अद्य बुधवासरे नरसिंहपुर-जनपदस्य मुङ्गवानी-ग्रामे आयोजितात् कार्यक्रमात् “मुख्यमन्त्री-लाड़ली-बहना-योजना” इत्यस्याः ३६ तमं पर्यायं विमोक्ष्यति। प्रदेशस्य १ कोटिः २५ लक्षं २२ सहस्रं ५४२ लाड़ली-भगिनीनां धनागारेषु १,८३५ कोटिः ६७ लक्षं २९ सहस्रं २५० रूप्यकाणां राशिः सिंगल-क्लिक्-माध्यमेन अन्तरिता भविष्यति।
जनसम्पर्क-अधिकारिणी बिन्दु-सुनीलः इत्यनया सूचना दत्ता यत् मुख्यमन्त्री डॉ.यादवः अपराह्णे १:३० वादने मुङ्गवानी-ग्रामे मुख्यमन्त्री-लाड़ली-बहना-योजना-अन्तर्गतं आयोजिते कार्यक्रमे हितग्राहिणीभ्यः लाभान् प्रदास्यति। कार्यक्रमे मुख्यमन्त्री डॉ.यादवः विविध-विकास-कार्याणां लोकार्पणं भूमिपूजनं च करिष्यति।
निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री डॉ.यादवः अपराह्णे १२:३५ वादने भोपाल-नगरात् हेलिकॉप्टर-यानद्वारा प्रस्थित्य अपराह्णे १:३० वादने मुङ्गवानी-हेलिपदे उपस्थास्यति तथा च स्थानीय-कार्यक्रमेषु सहभागं करिष्यति। ततः सः अपराह्णे ३:२० वादने मुङ्गवानी-हेलिपदात् अनूपपुर-जनपदाय प्रस्थितः भविष्यति।
जनसम्पर्क-अधिकारिण्याः अनुसारं लाड़ली-बहना-योजना महिलानां जीवने आर्थिक-सुरक्षायाः, आत्मविश्वासस्य, सम्मानस्य च आधारः अभवत्। नियमित-आर्थिक-सहायतया महिलानां पारिवारिक-निर्णयेषु सहभागिता वर्धिता, पोषण-स्वास्थ्य-स्तरे सुधारः अभवत् तथा च ग्रामीण-नगरीय-क्षेत्रयोः महिलानां आर्थिक-भूमिका दृढा जाता।
उल्लेखनीयम् अस्ति यत् २०२३ तमस्य वर्षस्य जून-मासे आरब्धायां अस्यां महत्त्वाकाङ्क्षिण्यां लाड़ली-बहना-योजनायां एप्रिलमासः २०२६ पर्यन्तं ३५ मासिक-पर्यायानां सफलतया अन्तरणं सम्पन्नम् अस्ति। अद्य विमोच्यमाना राशिः योजनायाः ३६ तमः पर्यायः भविष्यति। जून २०२३ तः एप्रिल २०२६ पर्यन्तं महिलानां धनागारेषु आहत्य ५५,९२६.५१ कोटि-रूप्यकाणां राशिः प्रत्यक्ष-डी.बी.टी.-माध्यमेन निक्षिप्ता अस्ति।
राशेः क्रमिक-वृद्धिः : १,००० तः वर्धित्वा १,५०० रूप्यकाणि प्रतिमासम्
योजनायाः प्रारम्भे प्रत्येकेभ्यः पात्र-महिलाभ्यः प्रतिमासं १,००० रूप्यकाणि प्रदीयन्ते स्म। अक्टोबर् २०२३ मध्ये एषा राशिः वर्धयित्वा १,२५० रूप्यकाणि प्रतिमासं कृता। अनन्तरं नवम्बरमासः २०२५ तः पुनः वृद्धिं कृत्वा एषा राशिः १,५०० रूप्यकाणि प्रतिमासं कृता। सामाजिक-सुरक्षा-पेन्शन-योजनानाम् अन्तर्गतं न्यून-राशिं प्राप्नुवन्त्यः महिलाः अपि अस्याः योजनायाः माध्यमेन अतिरिक्त-सहायतां प्राप्नुवन्ति, येन कुल-देय-राशिः सुनिश्चिताभवति।
कोटिशः महिलानां जीवने व्यापकं परिवर्तनम् आगतम्
मुख्यमन्त्री-लाड़ली-बहना-योजना मध्यप्रदेशे महिला-कल्याण-क्षेत्रे नूतनं उदाहरणं स्थापितवती। एषा केवलम् आर्थिक-सहायता-योजना नास्ति, अपितु सामाजिक-परिवर्तनस्य प्रभावी-माध्यमम् अपि अभवत्। योजनया प्रदेशस्य महिलानां जीवने व्यापकानि सकारात्मक-परिवर्तनानि आगतानि। नियमित-आर्थिक-सहायतया महिलाः गृह-व्यय-प्रबन्धने अधिकाः आत्मनिर्भराः अभवन्, येन ताः स्व-आवश्यकतानां पूर्त्या सह बालकानां पोषण-शिक्षा-स्वास्थ्येषु अधिक-प्रभावी-रूपेण व्ययं कर्तुं समर्थाः अभवन्।
योजनया प्राप्ता राशिः अनेकाः महिलाः स्व-सहायता-समूहैः, लघु-उद्योगैः, स्व-रोजगार-गतिविधिभिः च सह सम्बद्धाः कर्तुं प्रेरितवती। एतेन तासां आयस्य अतिरिक्त-स्रोतांसि विकसितानि। आर्थिक-रूपेण सशक्ताः भूत्वा महिलानां पारिवारिक-महत्त्वपूर्ण-निर्णयेषु सहभागिता वर्धिता तथा च तासां मतस्य अधिकं महत्त्वं प्रदीयते। धनागारेषु प्रत्यक्ष-राश्यन्तरण-व्यवस्थयाः महिलाः औपचारिक-धनागार-वित्तीय-सेवाभिः सह सम्बद्धाः अभवन्। एतेन तासां वित्तीय-साक्षरता आर्थिक-आत्मविश्वासश्च उल्लेखनीय-रूपेण वर्धितौ।
ग्रामीण-नगरीय-महिलाभ्यः समानरूपेण उपयोगिनी योजना
अस्याः योजनायाः लाभः ग्रामीण-आदिवासी-नगरीय-कल्याणी-परित्यक्ता-महिलाः इत्यादीन् व्यापक-वर्गान् प्राप्नोति। पात्र-महिलानां सक्रिय-आधार-संलग्न-धनागारेषु प्रत्यक्ष-राशि-निक्षेपणेन सम्पूर्णा प्रक्रिया पारदर्शिनी शीघ्रा च अभवत्। राज्य-सर्वकारेण विविध-विशेष-अवसरेषु उत्सवेषु च अतिरिक्त-आर्थिक-सहायता प्रदाय महिलानां जीवने उत्साहस्य सुखस्य च सञ्चारः कृतः। एतेन योजना केवलं नियमित-सहायतायाः सीमायां न स्थित्वा भावनात्मक-सम्बलस्य माध्यमम् अपि अभवत्।
हिन्दुस्थान समाचार / अंशु गुप्ता