Enter your Email Address to subscribe to our newsletters

काठमाण्डूः, 13मईमासः (हि.
सं.)। नेपाल-पर्यटन-मण्डलेन स्पष्टीकृतं यत् नेपाल-सर्वकारेण भारतीयनागरिकाणां यात्रा-व्यवस्थायां किमपि नूतनं परिवर्तनम् न कृतम् अस्ति इति, भारतीय-पर्यटकानाम् उपरि नूतनान् प्रतिबन्धान् आरोपितवत्यः वार्ताः भ्रमात्मकानि तथ्येतरानि च इति।
बुधवासरे एकस्मिन् वक्तव्ये पर्यटन-मण्डलम् अवदत् यत् केचन भारतीय-प्रसारमाध्यम-संस्थाः आन्लैन्-मञ्चाः च दुष्प्रचारं प्रसारयन्ति यत् नेपाल-देशम् आगच्छतां भारतीय-पर्यटकानां कृते नूतन-व्यवस्थाः कार्यान्विताः सन्ति, यथा अनिवार्य-परिचयपत्राणि, 30-दिवस-काल-सीमा, अधिककालं स्थातुं वाहनानां अभिग्रहणम् इत्यादीनि। परिषद् इत्येताः सर्वाः अभियोगाः पूर्णतया निराधारानि, भ्रामकाः च इति अवोचत्।
नेपाल-सर्वकारः स्पष्टीकृतवान् यत् नेपालदेशे भारतीय-पर्यटकानां निवासस्य अवधिं सीमितं कर्तुं किमपि नूतनं नीतिं न प्रवर्तिता अस्ति इति। अपि च, नेपाल-भारतयोः मध्ये दीर्घकालीन-मुक्तसीमा-व्यवस्थायां, द्वैपाक्षिक-सन्धिषु च किमपि परिवर्तनम् न अभवत्। नेपाल-भारतयोः ऐतिहासिक-जनसम्पर्कः, सांस्कृतिक-सामीप्यं, पर्यटन-सहकारः च पूर्ववत् दृढः चिरस्थायी च अस्ति।
बोर्ड् इत्यपि सूचितवान् यत् नेपाल-सर्वकारेण सद्यः एव भारतीय-विदेशीय-पर्यटकानां सौख्यार्थं नूतनं आन्लैन्-व्यवस्था प्रवर्तिता अस्ति इति। सीमाशुल्क-विभागेन विकसिता अस्याः डिजिटल-व्यवस्थायाः माध्यमेन, निजी-वाहनैः नेपाल-देशं प्रति आगच्छन्तः विदेशीय-नागरिकाः अधुना अस्थायी-प्रवेश-अनुमति-प्रक्रियाम्, राजस्व-देय-प्रक्रियाम् च आन्लैन्-माध्यमेन समाप्यन्ते।
नेपाल-पर्यटन-मण्डलस्य मते, अस्य व्यवस्थायाः उद्देश्यं सीमा-परीक्षणस्थानानां प्रक्रियां सरलीकरणं, यात्रिकाणां असौकर्यं न्यूनीकरणं, पर्यटकानां कृते उत्तमः अनुभवः प्रदातुं च अस्ति। बोर्ड् इत्यनेन मीडिया-संस्थाः, डिजिटल्-मञ्चाः, पर्यटन-व्यावसायिकाः, सामान्य-नागरिकाः च अप्रमाणितसूचनानां आदानप्रदानं न कुर्युः तथा च केवलं नेपाल-सर्वकारस्य तथा नेपाल-पर्यटन-मण्डलस्य आधिकारिक-स्रोतांभ्यः प्राप्तसूचनानां आश्रयं कुर्युः इति प्रार्थितम् अस्ति। नेपाल-देशः भारतीय-पर्यटकैः सह सम्पूर्णे विश्वे आगन्तूनां कृते सुरक्षितः, मैत्रीपूर्णः, स्वागतयोग्यः च पर्यटनस्थलः अस्ति इति अपि उक्तम् अस्ति।
--------
Hindusthan Samachar / Dheeraj Maithani