Enter your Email Address to subscribe to our newsletters

पुदुचेरी, 13 मे-मास:। राष्ट्रिय-जनतांत्रिक-सङ्घटनस्य नेता तथा अखिल-भारतीय-एन.आर.काङ्ग्रेस: (एऐएन.आर.सी.) इत्यस्य संस्थापकः एन.रंगसामिः बुधवासरे पञ्चमं वारं पुदुचेरी-राज्यस्य मुख्यमन्त्रीरूपेण शपथं स्वीकृतवान्। उपराज्यपालः कैलासनाथन् तं पदस्य गोपनीयतायाः च शपथं प्रदत्तवान्। तेन सह भाजपा-पक्षस्य ए.नमशिवायम्, एन.आर. काङ्ग्रेस-पक्षस्य मल्लादि कृष्णरावः च मन्त्रिरूपेण शपथं स्वीकृतवन्तः।
पुदुचेरी-राज्यस्य मुख्यमन्त्री-मन्त्रिणां च शपथग्रहण-समारोहः अद्य प्रातः 9.47 वादने उपराज्यपालस्य गृह-परिसरे अभवत्। एन.रङ्गसामिः पञ्चमं वारं पुदुचेरी-राज्यस्य मुख्यमन्त्रीरूपेण शपथं स्वीकृतवान्। तेन सह भाजपा-पक्षस्य ए. नमशिवायम्, एन.आर.काङ्ग्रेस-पक्षस्य मल्लादि कृष्णरावः च मन्त्रिरूपेण शपथं स्वीकृतवन्तः। मल्लादि कृष्णरावः तेलुगुभाषायां शपथं स्वीकृतवान्।
कार्यक्रमस्य आरम्भः वंदे मातरम् इत्यनेन राष्ट्रगीतेन च अभवत्, तृतीयक्रमेण तमिळ्-थाय्-वझ्तु इति गीतं गीयते स्म। शपथग्रहणसमारोहे भाजपा-पक्षस्य राष्ट्रिय-अध्यक्षः नितिन-नवीनः, अन्ये च पक्ष-पदाधिकारिणः उपस्थिताः आसन्। मन्त्रिणां पूर्णं शपथग्रहणम् एकसप्ताहाभ्यन्तरे भविष्यति। विभागानां विभाजनं समकाले घोषितं भविष्यति।
पञ्चमवारं मुख्यमन्त्रीरूपेण शपथं स्वीकृत्य, रङ्गसामिः पदयात्रया विधानसभां प्राप्तवान्। तत्र सः आरक्षक-परेड्-इत्यस्य अभिवादनं स्वीकृतवान् तथा च स्वस्य प्रकोष्ठे महत्त्वपूर्णेषु अभिलेखेषु हस्ताक्षरं कृत्वा वार्ताकारैः सह वार्तालापं कुर्वन् उक्तवान् यत् पञ्चमं वारं पुदुचेरी-राज्यस्य मुख्यमन्त्री भवितुं मम कृते आनन्दस्य विषयः अस्ति। अद्य वयं योजनाभिः सम्बद्धाः सञ्चिकासु हस्ताक्षरं कृतवन्तः। पीत-राशन-पत्रक-धारकेभ्यः आश्वस्ति-योजनायाः लाभं विस्तारयितुं व्यवस्था अपि कृता अस्ति। अद्यावधि केवलं रक्त-राशन-पत्रक-धारकेभ्यः एव आश्वस्ति-आच्छादनम् आसीत् इति
अधुना पुदुचेरी-नगरस्य पीत-राशन-पत्रक-धारकेभ्यः सर्वकारीय-चिकित्सालयेषु अनुपलब्धस्य चिकित्सायाः कृते स्वायत्त-चिकित्सालयेषु व्ययितस्य धनराशे: अधिकतमं 3 लक्षरूप्यकाणि प्रतिपूरितम् भविष्यति। इयं राशिः राज्यसर्वकारेण वह्यते।
सः सेड्रापेट्-क्षेत्रे औद्योगिकक्षेत्राणि स्थापयितुं, युवभ्य: रोजगारं प्रदातुं च लेखे हस्ताक्षरम् अकरोत्। पुदुचेरी-नगरस्य इन्दिरा-गान्धी-वैद्यकीय-महाविद्यालये नमो-पुदुचेरी-कर्करोग-चिकित्सालयस्य तथा शोध-केन्द्रस्य स्थापना भविष्यति। अनेन मूलसौकर्याणां विकासः, अत्याधुनिक-कर्करोग-चिकित्सा-सुविधाः, प्रौद्योगिकीयसाधनानि, अनुसंधान-वातावरणम्, विशेषज्ञचिकित्सकानां चयनं प्रशिक्षणं च सुनिश्चितं भविष्यति। क्रीडायाः विकासाय क्रीडाङ्गणनिर्माणस्य लेखः अपि हस्ताक्षरितः अस्ति।
पुदुचेरी-नगरे विधानसभानिर्वाचने 9 अप्रैलमासे मतानां गणना 4 मे-मासे अभवत् इति स्मरणीयम्। तदनन्तरं राज्ये पुनः एकदा राष्ट्रिय-जनतांत्रिक-गठबन्धनस्य नेता एन.रङ्गसामी-इत्यस्य नेतृत्वे संयुक्त-सर्वकारः दृष्टः।
Hindusthan Samachar / Divya Ranjan