ब्रिक्स-देशानां विदेशमन्त्रीभिः सह मोदीवर्यस्य सभा
नवदेहली, 14 मईमासः (हि.स.)। विदेशमन्त्रिणः, ब्रिक्स्-देशानाम्, अन्यसहभागि-देशानाम् च वरिष्ठप्रतिनिधयः गुरुवासरे प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन सह मिलितवन्तः। सः अन्यैः प्रतिनिधिभिः सह अपि मिलितवान्, यथा रशियादेशस्य विदेशमन्त्री सर्गेयलाव्रोवः,
प्रधानमंत्री नरेन्द्र मोदी के साथ अन्य लोग मौजूद।


नवदेहली, 14 मईमासः (हि.स.)। विदेशमन्त्रिणः, ब्रिक्स्-देशानाम्, अन्यसहभागि-देशानाम् च वरिष्ठप्रतिनिधयः गुरुवासरे प्रधानमन्त्रिणा नरेन्द्रमोदीमहोदयेन सह मिलितवन्तः। सः अन्यैः प्रतिनिधिभिः सह अपि मिलितवान्, यथा रशियादेशस्य विदेशमन्त्री सर्गेयलाव्रोवः, ब्राजील-देशस्य विदेशमन्त्री मौरो वियेरा, दक्षिण-आफ़्रिकादेशस्य विदेशमन्त्री रोनाल्डलामोला, इरान्-देशस्य विदेशमन्त्री सैय्यद-अब्बास-अराघ्ची, इथियोपिया-देशस्य विदेशमन्त्री गेडियोन् टिमोथोस-हेसेबोन्, इण्डोनेशिया-देशस्य विदेशमन्त्री सुगियोनो च।

विदेशमन्त्री डा.सुब्रह्मण्यम्-जयशङ्करः देहलीनगरस्य भारतमण्डपे 14-15 मे-मासात् आरभ्यमाणस्य द्विवार्षिकस्य ब्रिक्स-देशानाम् विदेशमन्त्रिमण्डलस्य अध्यक्षः अस्ति। अस्य वर्षस्य विषयवस्तु अस्ति 'बिल्डिङ्ग-फ़ार-रिजिलियन्स, इन्नोवेशन, कोलाबोरेशन् एण्ड सस्टेनेबल डेवेलप्मेण्ट्' इति। अस्य उद्देश्यानि भारतस्य वर्धमान-राजनैतिक-सम्बन्धं, सामरिक-आर्थिक-बहुपक्षीय-सहकारं सुदृढं कर्तुं समूहस्य ध्यानं च प्रतिबिम्बयन्ति।

रशिया, इरान, इण्डोनेशिया, यु.एई, दक्षिण-आफ़्रिका, इथियोपिया इत्यादीनां ब्रिक्स-सहभागि-देशानां विदेश-मन्त्रिणां वरिष्ठप्रतिनिधिनां च स्वागतम् अभवत्।

Hindusthan Samachar / Divya Ranjan