मुख्यमन्त्री हिमन्त-बिस्व-सरमा कामाख्या-देवालयं गतवान्
गुवाहाटीनगरम्, 14 मईमासः। असम-राज्यस्य मुख्यमन्त्री डा.हिमन्त-बिस्व-सरमा-वर्यः अद्य कामाख्या-धामं गत्वा मा-कामाख्या-देव्याः प्रार्थनां कृतवान्। गुवाहाटी-नगरस्य नीलाचलपर्वते स्थिते मन्दिरे मुख्यमन्त्री राज्यस्य सुखस्य, समृद्धेः, शान्तेः च कृते प्रा
मुख्यमंत्री डॉ हिमंत बिस्व सरमा कामाख्या मंदिर परिसर में।


गुवाहाटीनगरम्, 14 मईमासः। असम-राज्यस्य मुख्यमन्त्री डा.हिमन्त-बिस्व-सरमा-वर्यः अद्य कामाख्या-धामं गत्वा मा-कामाख्या-देव्याः प्रार्थनां कृतवान्।

गुवाहाटी-नगरस्य नीलाचलपर्वते स्थिते मन्दिरे मुख्यमन्त्री राज्यस्य सुखस्य, समृद्धेः, शान्तेः च कृते प्रार्थनां कृतवान्। देवालयस्य परिसरे भक्तैः, मन्दिरप्रबन्धकैः च मुख्यमन्त्रिणः स्वागतम् अभवत्।

उल्लेखनीयम् यत् कामाख्या-मन्दिरं देशस्य प्रमुखेषु शक्तिपीठेषु अन्यतमम् अस्ति, यत्र प्रतिवर्षं सम्पूर्णदेशात् बहुसङ्ख्यकाः भक्ताः आगच्छन्ति।

सरमा-वर्यः मुख्यमन्त्रीपदस्य कार्यभारं स्वीकृत्य अद्य प्रथमवारं कामाख्याधाम-नगरं प्राप्तवान्। तस्मिन् एव समये, कामाख्या-धाम-प्रबन्धनेन मुख्यमन्त्री-वर्यस्य पारम्परिकं स्वागतम् अभवत्।

Hindusthan Samachar / Divya Ranjan