Enter your Email Address to subscribe to our newsletters

नवदेहली, 14 मे-मासः (हि.स.)। हाकी-इण्डिया इत्यनेन गुरुवासरे भारतीयस्य कनिष्ठस्य पुरुषस्य हाकी-दलस्य नूतनः मुख्यप्रशिक्षकः इति अनुभवी फ़्रेञ्च-प्रशिक्षकः फ़्रेडरिकसोयजस्य नियुक्तिः कृता। भारतस्य 2036 ओलम्पिक-लक्ष्यम् अनुसृत्य दृढं दीर्घकालिकं च उच्च-निष्पादन-संरचनायाः निर्माणार्थं एषा नियुक्तिः प्रमुखः पदक्षेपरूपेण दृष्टा अस्ति।
ऐरोप्य-हाकी-क्रीडायां अनुभवेषु सफलेषु च प्रशिक्षकेषु अन्यतमः इति परिगणितः फ्रेडरिकसोयजः दशकत्रयं यावत् अनुभवयुक्तः अस्ति। सः 15 वर्षाणि यावत् फ़्रान्स-देशस्य अन्ताराष्ट्रिय-क्रीडकः आसीत्, गत 15 वर्षाणि यावत् विश्व-स्तरीय-हाकी-दलानां मुख्यप्रशिक्षकत्वेन कार्यं कुर्वन् आसीत्।
फ्रेडरिकसोयजः 1995 तः 2010 पर्यन्तं फ़्रान्स-देशस्य कृते अक्रीडत्, 196 अन्ताराष्ट्रिय-प्रदर्शनानि कृत्वा, 195 गोल्स कृतवान्। ततः सः फ्रान्स-स्पेन-देशयोः राष्ट्रिय-पुरुष-हाकी-दलानां प्रशिक्षकः अभवत्। तस्य तिसृणाम् ओलिम्पिक-क्रीडाणाम् अपि अनुभवः अस्ति। सः रियो 2016 तथा टोक्यो 2020 ओलिम्पिक्स कृते स्पेन-देशस्य दलं मार्गदर्शयत्, तथा च प्यारिस-2024 ओलिम्पिक्स-मध्ये फ़्रान्स-देशस्य दलस्य मुख्यप्रशिक्षकः आसीत्।
तस्य प्रशिक्षणेन स्पेन-देशः 2019 यूरोपीय-च्याम्पियन्शिप-क्रीडायां रजतपदकं प्राप्नोत्। एतदतिरिच्य, रियो-टोक्यो-ओलिम्पिक-क्रीडासु च दलं क्वार्टर-फाइनल्स-मध्ये गतवान्।
यूनः क्रीडकान् सज्जीकर्तुं सोयेजस्य अभिलेखः अपि उत्कृष्टः अस्ति। 2013 तमे वर्षे देहलीनगरे आयोजिते एफ.ऐ.एच. जूनियर-पुरुष-हाकी-विश्वकप्-क्रीडायां सः फ्रान्स-देशस्य नेतृत्वे ऐतिहासिकं रजतपदकं प्राप्तवान्। सद्यः एव सः 2025 तमे वर्षे यूरोपीय-च्याम्पियन्शिप-क्रीडायां फ़्रान्स-देशस्य 18 वर्षान्तस्य पुरुषदलस्य नेतृत्वं कृत्वा रजतपदकं प्राप्तवान्।
सोयेजः 2021 तः 2024 पर्यन्तं फ़्रेञ्च-हाकी-फ़ेडरेशन-इत्यस्य उच्च-प्रदर्शन-निर्देशकः अपि आसीत्, यत्र सः क्रीडकाणां विकासस्य प्रदर्शन-प्रणाल्याः च दायित्वं स्वीकृतवान्।
तस्य प्रशिक्षण-वृत्तौ द्वौ एफ.ऐ.एच. पुरुष-हाकी-विश्वकप् (2018,2023), षट् यूरोपीय-च्याम्पियन्शिप च सन्ति। देशीयरूपेण, सः 2012 तमे वर्षे लिल्ले एम.एच.सी.क्लब-इत्यस्य नेतृत्वे फ्रेञ्च-इन्डोर तथा आउट्-डोर-च्याम्पियन्शिप उपाधिं प्राप्तवान्।
फ्रेडरिकसोयजः उच्च-प्रदर्शन-प्रणाल्यां, क्रीडक-विकासस्य, पेनाल्टी-कार्नर-तन्त्रस्य च विशेषज्ञः इति प्रसिद्धः अस्ति। तेषां दलानां लक्षणानि दृढतन्त्राणि, स्थिरप्रदर्शनानि च सन्ति।
हाकी-इण्डिया इत्यस्य अध्यक्षः डा.दिलीपः तिर्की अवदत् यत्, हाकी-इण्डिया परिवारं प्रति फ्रेडरिकसोयजस्य स्वागतम्। तस्य ओलिम्पिक्-क्रीडायाः, विश्वकप्-क्रीडायाः, यूरोप्-च्याम्पियन्शिप्-क्रीडायाः च विस्तृतः अनुभवः अस्ति। तस्य अनुभवः 2036 ओलम्पिक-क्रीडायाः दीर्घकालीनलक्ष्यं प्रति भारतीय-हाकी-क्रीडां सुदृढं करिष्यति इति अस्माकं दृढविश्वासः अस्ति।
सः इतोऽपि अवदत् यत्, हाकी-इण्डिया-संस्थायाः उद्देश्यं न केवलं तत्क्षणस्य परिणामानां प्राप्तिः अपितु उप-कनिष्ठतः वरिष्ठ-स्तरपर्यन्तं सुदृढं एकीकृतं च प्रशिक्षण-संरचनायाः निर्माणम् अस्ति।
हाकी-इण्डिया-संस्थायाः महासचिवः भोलानाथसिंहः अवदत् यत्, अस्माकं लक्ष्यं मूलस्तरीयेभ्यः अन्ताराष्ट्रिय-स्तरीयाणां क्रीडकाणां कृते सुदृढां विकासव्यवस्थां निर्मातुम् अस्ति। फ्रेडरिकसोयजस्य अनुभवः भारतीय-कनिष्ठ-हाकी-कार्यक्रमे नूतनां दिशां दातुं शक्नोति तथा च भविष्यस्य कृते प्रबलं प्रतिभां सज्जीकर्तुं साहाय्यं करिष्यति इति।
Hindusthan Samachar / Divya Ranjan