पश्चिमबङ्गालराज्ये निर्वाचक-सूचिनां सत्यापनं, मृतानां नामानां निष्कासनप्रक्रिया, स्थानान्तरिताः मतदातारः च चिह्निताः अभवन्
कोलकातानगरम्, 14 मईमासः। पश्चिमबङ्गालराज्यस्य मुख्य-निर्वाचन-अधिकारिणः कार्यालयेन सम्पूर्णे राज्ये मण्डल-निर्वाचन-अधिकारिणः निर्वाचन-पञ्जीकरण-अधिकारिणः च निर्वाचक-सूचिनां विस्तृतं सत्यापनं कर्तुं निर्देशः दत्तः अस्ति। अस्य अभियानस्य अन्तर्गतं, ये म
चुनाव अधिकारी


कोलकातानगरम्, 14 मईमासः। पश्चिमबङ्गालराज्यस्य मुख्य-निर्वाचन-अधिकारिणः कार्यालयेन सम्पूर्णे राज्ये मण्डल-निर्वाचन-अधिकारिणः निर्वाचन-पञ्जीकरण-अधिकारिणः च निर्वाचक-सूचिनां विस्तृतं सत्यापनं कर्तुं निर्देशः दत्तः अस्ति। अस्य अभियानस्य अन्तर्गतं, ये मतदातारः स्वनिवासस्थानं परिवर्तितवन्तः, पञ्जीकृत-पत्रे न निवसन्ति अथ वा मृताः सन्ति, तेषां परिचयः भविष्यति।

बुधवासरे निर्गतम् आधिकारिकं वक्तव्यम् अकथयत् यत् भारतस्य निर्वाचन-आयोगस्य मार्गनिर्देशानुसारं अपात्राणां नामानां निष्कासनस्य प्रक्रिया सर्वेषु मण्डलेषु निर्वाचक-सूचिनां विस्तृतसमीक्षां कृत्वा आरभत इति। अधिकारिणः स्वक्षेत्रेषु निर्वाचक-सूचीं पूर्णतया परीक्षितुम् याचिताः सन्ति।

निर्देशः विशेषतः प्रपत्र-7 आवेदनानां शीघ्रसमाधानाय महत्त्वं ददति। प्रपत्रं-7 इत्यस्य उपयोगः आक्षेपपत्रं दातुं, निर्वाचक-सूच्यां नामानि निष्कासयितुं च भवति। सत्यापनायाम् अभिधीयमानेषु प्रकरणेषु आवश्यकं कार्यं कर्तुं निर्देशाः अपि दत्ताः सन्ति।

मुख्य-निर्वाचन-अधिकारिणः कार्यालयस्य अनुसारं, अग्रिमनिर्वाचनात् पूर्वं निर्वाचक-सूचीं अधिकं पारदर्शकं, यथार्थं, दोषमुक्तं च कर्तुं अभियानस्य उद्देश्यं वर्तते। निर्वाचन-अधिकारिणः मन्यन्ते यत् अद्यतनीकृत-निर्वाचक-सूचयः निर्वाचन-प्रक्रियायाः निष्पक्षतां निर्वोढुं, मिथ्या-नामानि वा द्विगुणितानि वा निवारयितुं च आवश्यकानि सन्ति इति।

राज्यस्य सर्वे मण्डलप्रशासनिक-अधिकारिणः प्राधान्येन एतत् कार्यं समाप्य निर्वाचन-आयोगस्य निर्देशानाम् तत्क्षणम् अनुपालनं सुनिश्चितं कर्तुम् आदिष्टवन्तः।

Hindusthan Samachar / Divya Ranjan