Enter your Email Address to subscribe to our newsletters

कोलकाता, 15मईमासः, (हि.सं.) पश्चिमवङ्गस्य उच्चमाध्यमिकशिक्षापरिषद् गुरुवासरे 2026 वर्षस्य उच्चमाध्यमिकपरीक्षायाः परिणामम् अघोषयत्। बिधाननगरस्य परिषदकार्यालये आयोजिते पत्रकारसम्मेलने परिणामाः औपचारिकरूपेण घोषिताः। प्रातः 11 वादनेभ्यः आरभ्य परीक्षितानां कृते परिषदस्य अधिकृत-जालपुटे परिणामाः उपलभ्यन्त।
अस्मिन् वर्षे उच्चमाध्यमिकपरीक्षार्थं आहत्य 6,35,931 छात्राः पञ्जीकरणं कृतवन्तः, येषु 6,26,258 जनाः उपस्थिताः। आहत्य 571,355 छात्राः सफलाः इति घोषिताः। परीक्षायाः समग्रं उत्तीर्णतां प्रतिशतं 91.23 आसीत्।
पूर्व-मेदिनीपुर-मण्डले सर्वोत्तमं प्रदर्शनम् अभिलिखितम्। अस्मिन् मण्डले 94.19 प्रतिशतं उत्तीर्णतां प्राप्तम्, यत् राज्ये सर्वाधिकम् अस्ति। अस्मिन् वर्षे योग्यता-सूच्यां आहत्य 64 छात्राः, 56 बालकाः अष्ट-बालिकाः च मिलित्वा, शीर्ष-10 स्थानेषु स्थानम् अवाप्नोत्। अद्रितपालः 496 अङ्कान् प्राप्य राज्ये प्रथमस्थानं प्राप्नोत्।
अस्मिन् वर्षे प्रथमवारं उच्चमाध्यमिकपरीक्षा सॆमिस्टर्-व्यवस्थया आयोजिता। परीक्षायां 15 भाषाः, 16 व्यावसायिकविषयाः च आसन्। सम्पूर्णे राज्ये 6,837 विद्यालयानां छात्राः परीक्षाम् अकुर्वन्। महिलाछात्राणां सङ्ख्या पुरुषछात्राणां अपेक्षया 66,486 अधिका आसीत्।
छात्राः आधिकारिक-जालपुटे अनुक्रमणिका-सङ्ख्यां पञ्जीकरण-सङ्ख्यां च अभिलिखयित्वा स्वस्य परिणामं द्रष्टुं शक्नुवन्ति इति परिषदः अवदत्। विद्यालयेभ्यः अङ्कपत्राणां प्रमाणपत्रानां च वितरणप्रक्रिया अपि आरब्धा अस्ति। अपि च, पोस्ट्-पब्लिकेषन्-स्क्रूटिनी तथा पोस्ट्-पब्लिकेषन्-रिव्यू इत्येतयोः आवेदनप्रक्रिया अपराह्णे 12 वादने 14 मई इत्यस्मिन्दिनांके आरभ्यते।
अस्मिन् अवसरे मुख्यमन्त्रिणः सुवेन्दु अधिकारीवर्यः परीक्षायां सफलान् सर्वेभ्यः छात्रान् शुभाशयाः अभिनन्दनानि च प्रेषितवान्। मुख्यमन्त्री स्वस्य सन्देशे अवदत् यत् छात्राणां परिश्रमः, अनुशासनं, आत्मविश्वासः च तेभ्यः सफलतां प्राददात् इति। सः अवदत् यत् जीवनस्य अस्मिन् महत्त्वपूर्णस्तरे प्राप्तं साफल्यं छात्रान् भविष्ये महत्तरलक्ष्याणि साधयितुं प्रेरयिष्यति इति।
सर्वेभ्यः छात्राणां उज्ज्वलस्य भविष्यस्य कामनाः कुर्वन्, मुख्यमंत्रीः अवदत् यत् ते परिवाराय, समाजाय, राज्याय च गौरवम् आनेयुः इति।
----------
Hindusthan Samachar / Dheeraj Maithani