Enter your Email Address to subscribe to our newsletters

पटना-नगरम्, १५ मईमासः (हि.स.)। सम्राट-चौधरी अद्य मुख्यमन्त्री-आवासात् मुख्यमन्त्री-सचिवालयपर्यन्तं यात्रां पदयात्रया एव सम्पन्नवान्। एषा यात्रा प्रायः ५० मीटर-परिमिता आसीत्।
पेट्रोल-डीजल-उपभोगस्य न्यूनीकरणाय पर्यावरण-संरक्षणाय च प्रधानमन्त्रिणः नरेन्द्र-मोदिना कृतम् आह्वानम् अधुना बिहारस्य राजनीतौ अपि दृश्यते। सम्राट-चौधरी शुक्रवासरे ‘नो-व्हीकल-डे’ आचरति। सः मुख्यमन्त्री-आवासात् ५० मीटर-दूरस्थितं सचिवालयं पदयात्रया गतवान्।
मुख्यमन्त्रिणः अस्य प्रयत्नस्य अनन्तरं सचिवालयस्य अधिकारिणः कर्मचारिणश्च अपि वाहनानां उपयोगं न कृतवन्तः। सचिवालय-कर्मचारिणः द्विचक्रिकायानैः सार्वजनिक-परिवहन-साधनैः च कार्यालयम् आगतवन्तः। सचिवालय-परिसरस्य समीपे सामान्य-दिनेषु अपेक्षया सर्वकारीय-वाहनानां संख्या न्यूना दृष्टा, यदा अनेके अधिकारिणः स्वयमेव वाहनं चालयन्तः अथवा पदयात्रया कार्यालयं प्राप्नुवन्तः दृष्टाः।
गत-गुरुवासरे पटना-नगरात् दरभङ्गा-नगरं प्रति गन्तुं मुख्यमन्त्री केवलं त्रिभिः वाहनैः सह विमानस्थानकं प्राप्तवान्। अस्य पूर्वं तस्य वाहन-श्रेण्यां १९ वाहनानि आसन्। दरभङ्गा-कार्यक्रमे सः जनान् प्रति आह्वानं कृतवान् यत् जनाः सार्वजनिक-परिवहनस्य उपयोगं कुर्वन्तु। वैयक्तिक-सर्वकारीय-कार्यालयेषु च ‘वर्क-फ्रॉम-होम’ व्यवस्था प्रवर्त्यताम्। मन्त्रिणः जन-प्रतिनिधयश्च स्व-वाहनानां उपयोगं न्यूनीकुर्वन्तु। सप्ताहे एकः दिवसः ‘नो-व्हीकल-डे’ इति रूपेण पाल्यताम्।
प्रधानमन्त्रिणः इन्धन-संरक्षण-सन्देशस्य अनुसरणं कुर्वन् बिहार-सर्वकारस्य खान-भूतत्त्व-तथा-कला-संस्कृति-मन्त्री डॉ.प्रमोद-कुमारः गत-गुरुवासरे गयाजी-नगरस्य यात्रां रेलयानद्वारा कृतवान्। अपरतः केन्द्रीय-मन्त्री नित्यानन्दस्य बिहार-प्रवास-समये तस्य सुरक्षायाम् एकं सीआरपीएफ-वाहनं द्वितीयं बिहार-आरक्षकस्य वाहनं च भविष्यतः। अस्य विषये नित्यानन्दस्य कार्यालयात् बिहार-सर्वकाराय पत्रं प्रेषितम् अस्ति।
/ अंशु गुप्ता