Enter your Email Address to subscribe to our newsletters

नवदेहली, १५ मे-मासः (हि.स.)। विदेशमन्त्री डा. सुब्रह्मण्यम-जयशङ्करः तथा ईरानस्य विदेशमन्त्री अब्बास-अराघची इत्येतयोः मध्ये शुक्रवासरे देहल्यां प्रवर्तमानायाः ब्रिक्स-देशानां विदेशमन्त्रिणां द्विदिवसीय-सभायाः पार्श्वे विस्तृता वार्ता अभवत्।
डा.जयशङ्करः ‘एक्स’ माध्यमेन अवदत्— “अद्य प्रातःकाले देहल्यां ईरानस्य विदेशमन्त्री अब्बास-अराघची इत्यनेन सह विस्तृता चर्चा कृता। पश्चिम-एशिया-प्रदेशस्य स्थितेः तथा तस्य प्रभावाणां विषये विमर्शः अभवत्। सहैव परस्परहितसम्बद्धेषु द्विपक्षीय-विषयेषु अपि विचाराणाम् आदान-प्रदानं जातम्।”
उल्लेखनीयम् अस्ति यत् देहली-स्थिते भारत-मण्डपम् इति स्थले १४-१५ मे-मासपर्यन्तं प्रवर्तमानायाः ब्रिक्स-सभायाः अध्यक्षता विदेशमन्त्री डा.जयशङ्करः कुर्वन् अस्ति। अस्य वर्षस्य विषयः — “शिथिलता, नवोन्मेषः, सहयोगः तथा सतत-विकासाय निर्माणम्” इति अस्ति।
Hindusthan Samachar / Divya Ranjan