Enter your Email Address to subscribe to our newsletters

उदालगुडीनगरम् (असम), १५ मईमासः (हि.स.)। असम-सर्वकारस्य नवनियुक्त-मन्त्री चरण-बोडो इत्यस्य गत-रात्रौ उदालगुडी-नगरं प्राप्ते सति पक्ष-नेतृभिः कार्यकर्तृभिश्च सस्नेहं भव्यं स्वागतं कृतम्। शतशः उपस्थितैः पक्ष-कार्यकर्तृभिः वाद्य-वादनं, नृत्य-गायनं तथा शोभायात्रां निर्वह्य मन्त्रिणः स्व-निवास-स्थानं यावत् नीतम्।मन्त्रिणः स्वागतं प्रति समग्रे क्षेत्रे उत्सव-सदृशं वातावरणं दृष्टम्। समर्थकैः चरण-बोडो मन्त्रिमण्डले समाविष्टः इति विषये हर्षः व्यक्तः तथा च तस्मै शुभकामनाः प्रदत्ताः।
पत्रकारै: सह वार्तालापे चरण-बोडो उक्तवान् यत् असमस्य मुख्यमन्त्रिणः हिमन्तस्य नेतृत्वे जनसेवायाः अवसरः प्राप्तः इति कारणेन सः अत्यन्तं प्रसन्नः अस्ति। तेन उक्तं यत् सः जनकल्याणाय क्षेत्रस्य विकासाय च समर्पित-भावेन कार्यं करिष्यति।
Hindusthan Samachar / Divya Ranjan