देहल्यां डीएमआरसी-संस्थायाः हाइड्रोजन-ईन्धनेन सञ्चाल्यमाना शटल-बस-सेवा आरब्धा
नवदेहली, १५ मे-मासः (हि.स.)। देहली-मेट्रो-रेल-निगमः (डीएमआरसी) आवास-नगरीय-कार्य-मन्त्रालयस्य तथा पेट्रोलियम-प्राकृतिक-गैस-मन्त्रालयस्य सहयोगेन शुक्रवासरे देहल्याः सेण्ट्रल-विस्टा-क्षेत्रे हाइड्रोजन-ईन्धनेन सञ्चाल्यमानां एकीकृतां शटल-बस-सेवाम् आरब्ध
इंडियन ऑयल कॉर्पोरेशन के निदेशक (रिफाइनरी) अरविंद कुमार डीएमआरसी के निदेशक (संचालन एवं सेवा) डॉ. अमित कुमार जैन को हाइड्रोजन बसों की चाबियां सौंपते हुए।


नवदेहली, १५ मे-मासः (हि.स.)। देहली-मेट्रो-रेल-निगमः (डीएमआरसी) आवास-नगरीय-कार्य-मन्त्रालयस्य तथा पेट्रोलियम-प्राकृतिक-गैस-मन्त्रालयस्य सहयोगेन शुक्रवासरे देहल्याः सेण्ट्रल-विस्टा-क्षेत्रे हाइड्रोजन-ईन्धनेन सञ्चाल्यमानां एकीकृतां शटल-बस-सेवाम् आरब्धवान्। अद्य प्रातः ८:३० वादने केन्द्रीय-सचिवालय-मेट्रो-स्थानकात् यात्रिभ्यः द्वे प्रारम्भिके बसयाने प्रेषिते। डीएमआरसी-संस्थया विज्ञप्तौ एषा सूचना प्रदत्ता।

विज्ञप्त्यनुसारं डीएमआरसी तथा आईओसीएल-संस्थायाः अन्येषां वरिष्ठ-अधिकारिणां उपस्थितौ इण्डियन-आयल-कार्पोरेशन-संस्थायाः निदेशकः (रिफाइनरी) अरविन्द-कुमारः डीएमआरसी-संस्थायाः निदेशकाय (सञ्चालन-सेवा) डा.अमित-कुमार-जैनाय बसयानानां कुञ्जिकाः समर्पितवान्। एतेषु बसयानेषु ३५ यात्रिणां उपवेशन-क्षमता अस्ति। एतानि बसयानानि जीपीएस-आधारित-अनुसरण-प्रणाल्या तथा सीसीटीवी-व्यवस्थया सुसज्जितानि सन्ति, येन वास्तविक-समय-निरीक्षणं, सुरक्षा, समयपालनं तथा मार्ग-अनुपालनं सुनिश्चितं भवति।

एषा शटल-सेवा सर्वेषु कार्यदिवसेषु (सोमवासरात् शुक्रवासरपर्यन्तं, राजपत्रित-अवकाशान् विहाय) कार्यालयस्य व्यस्त-समये निम्नलिखित-समयेषु उपलब्धा भविष्यति— प्रातः ८:३० वादनात् मध्याह्न १२:३० वादनपर्यन्तं तथा अपराह्णे ३:३० वादनात् सायं ६:३० वादनपर्यन्तम्। प्रत्येकं ३० निमेषानन्तरं एकं बसयानम् उपलब्धं भविष्यति। एषा बस-सेवा कर्तव्य-भवनम्, विज्ञान-भवनम्, निर्माण-भवनम्, अकबर-मार्गः, बड़ौदा-हाउस, राष्ट्रिय-स्टेडियम, राष्ट्रिय-आधुनिक-कला-दीर्घा, इण्डिया-गेट् तथा सेवा-तीर्थ-मेट्रो-स्थानकेन सहितं महत्त्वपूर्णानि शासकीय-कार्यालयानि स्थालानि च गमिष्यति। यात्राशुल्कं क्रमशः १० तथा १५ रूप्यकाणि निर्धारितम् अस्ति।

डीएमआरसी बस-सेवा-सञ्चालनम्, परिचालकान्, चिटिका-व्यवस्थां तथा यात्रि-सहायतां पर्यवेक्षिष्यति, यदा तु आईओसीएल चालकान् तथा हाइड्रोजन-ईन्धनं प्रदास्यति। एषः प्रयत्नः भारत-सर्वकारस्य हरित-गतिशीलता, स्वच्छ-ऊर्जा-स्वीकारः तथा स्थायि-सार्वजनिक-परिवहन-अवसंरचनाः प्रति प्रतिबद्धतां रेखाङ्कयति।

/ अंशु गुप्ता