जयशङ्करः ब्रिक्स-सम्मेलने विश्व-व्यवस्थायां सहकारः, संवादः, सुधारः चेत्येतान् प्रति बलम् अददात्
नवदिल्ली- 14मईमासः (हि.स.) विदेशमन्त्री डा. एस्. जयशङ्करः शुक्रवासरे ब्रिक्स्-विदेशमन्त्रिमण्डलस्य सत्रस्य अध्यक्षः अभवत्। अस्य विषयः वैश्विकशासनस्य बहुपक्षीयव्यवस्थायाः च सुधारः इति आसीत्। विदेश-कार्यमन्त्रिणः अस्मिन् परस्पर-सम्बद्धस्य, जटिलस्य
ब्रिक्स विदेश मंत्री बैठक


नवदिल्ली- 14मईमासः (हि.स.)

विदेशमन्त्री डा. एस्. जयशङ्करः शुक्रवासरे ब्रिक्स्-विदेशमन्त्रिमण्डलस्य सत्रस्य अध्यक्षः अभवत्। अस्य विषयः वैश्विकशासनस्य बहुपक्षीयव्यवस्थायाः च सुधारः इति आसीत्। विदेश-कार्यमन्त्रिणः अस्मिन् परस्पर-सम्बद्धस्य, जटिलस्य, बहुध्रुवीयस्य च विश्वे विश्वसनीयस्य, सुधारोन्मुखस्य च बहुपक्षवादस्य आवश्यकतायाः उपरि अवधानं दत्तवान्। जयशङ्करः अवदत् यत् भारतस्य सन्देशः स्पष्टः अस्ति यत् सहकारः आवश्यकः अस्ति, संवादः आवश्यकः अस्ति तथा च दीर्घकालात् सुधारस्य आवश्यकता अस्ति इति।

भारतमण्डपे आयोजिते मेलने, ब्रिक्स्-देशानां विदेशमन्त्रिणां मध्ये, जयशङ्करः अधोरेखितवान् यत् संयुक्तराष्ट्रसङ्घस्य सुधाराणां प्रगतिविषये पूर्वनिश्चितस्य कार्यसूच्याः विषये लिखितरूपेण वार्तालापः करणीयः इति। अन्ताराष्ट्रिय-वित्तीय-संरचनायाः सुधारः, बहुपक्षीय-विकास-बैङ्क् इत्येतान् अधिक-प्रतिक्रियाशीलानि, सुदृढानि, दक्षानि च कर्तुं, विकासस्य, जलवायु-वित्तस्य च प्रवेशं वर्धयितुं च अत्यावश्यकता वर्तते।

जयशङ्करः पुनः एकदा नियम-आधारितस्य, निष्पक्षस्य, मुक्तस्य, समावेशीस्य च अन्ताराष्ट्रिय-व्यापारव्यवस्थायाः महत्त्वं अधोरेखितवान्। सः अवदत् यत् विश्वव्यापारसङ्घः अस्य केन्द्रस्थाने अस्ति इति। व्यापारेतरप्रथाः, आपूर्तिशृङ्खलायाः केन्द्रीकरणं, अनिश्चितविपण्यप्रवेशनम् इत्यादीनां समस्यानां प्रतिरोधं कर्तुं व्यापारव्यवस्था समर्थः भवेत्।

--------

Hindusthan Samachar / Dheeraj Maithani