Enter your Email Address to subscribe to our newsletters


राँची-नगरम्, १५ मे-मासः (हि.स.)। बिरसा-कृषि-विश्वविद्यालयस्य (बीएयू) कृषि-अभियन्त्रण-महाविद्यालये द्विदिवसीयस्य “अभिव्यक्ति २०२६” नामकस्य सांस्कृतिक-महोत्सवस्य आयोजनं शुक्रवासरे कृतम्। कार्यक्रमस्य अन्तर्गतं पञ्च-विषयेषु—ललित-कला, सङ्गीतम्, नृत्यम्, साहित्यम्, नाटकम् च—अष्टादश-प्रतियोगितानां आयोजनं कृतम्। अस्य मुख्योद्देश्यः छात्र-छात्राभ्यः स्वविचाराणां, मनोभावनानां, अनुभवानां च शब्दैः, संकेतैः, कलया, चित्रैः, नाटकेन, भाषणेन च अभिव्यक्तये मञ्चं प्रदातुम् आसीत्।
कार्यक्रमे १२० अधिकाः छात्र-छात्राः सहभागित्वं कृतवन्तः, येभ्यः विविधासु स्पर्धासु प्रथम-द्वितीय-तृतीय-पुरस्काराः प्रदत्ताः। जागृति-चौहान, आयुष-जामुदा, अनामिका-कुमारी, अरविन्द-कुमारः, प्रत्यूष-कुमारः, ईशिका-कुमारी, तनु-मुण्डा च उत्कृष्टं प्रदर्शनं कृतवन्तः।
द्विदिवसीय-कार्यक्रमस्य उद्घाटनं बीएयू-विश्वविद्यालयस्य कुलपतिना डॉ.एससी-दुबे-महोदयेन कृतम्। कृषि-संकायस्य अधिष्ठाता डॉ.डीके-शाही, कृषि-अभियन्त्रण-महाविद्यालयस्य सह-अधिष्ठाता प्रो.डीके-रूसिया, डीएसडब्ल्यू डॉ.बीके-अग्रवालश्चापि उपस्थिताः आसन्।आयोजने संकायस्य अध्यापकानां डॉ.एसके-पाण्डेयः, डॉ.अल्पना-दूबे, डॉ.छाया, गौरव-साहू, डॉ.नीति-तिर्की, वन्दना-चौबे, डॉ.रश्मि-यादव. इत्येतेषां सक्रिय-भूमिका आसीत्।
Hindusthan Samachar / Divya Ranjan