पिङ्क-सिटी-इत्यत्र पर्यटकानां कृते डिजिटल-सुरक्षा-कवचम्, जयपुर-आरक्षकविभाग: ‘पिङ्क-गार्ड’ इति अनुप्रयोगं निष्कासयिष्यति
जयपुर-नगरम्, १५ मईमासः (हि.स.)। देश-विदेशयोः पर्यटन-मानचित्रे विशेष-परिचयं धारयन्ती पाटल-नगरी अधुना पर्यटकाणां कृते अधिक-सुरक्षिता सुगमा च भविष्यति। जयपुर-आरक्षकविभाग: ‘पर्यटक-प्रथम’ इत्यस्य अवधारणायाः साकारार्थम् अभिनव: डिजिटल-प्रयत्न: आरब्ध: अस्त
पिंकसिटी में पर्यटकों के लिए डिजिटल सुरक्षा कवच जयपुर पुलिस लॉन्च करेगी पिंक गार्ड  ऐप


जयपुर-नगरम्, १५ मईमासः (हि.स.)। देश-विदेशयोः पर्यटन-मानचित्रे विशेष-परिचयं धारयन्ती पाटल-नगरी अधुना पर्यटकाणां कृते अधिक-सुरक्षिता सुगमा च भविष्यति। जयपुर-आरक्षकविभाग: ‘पर्यटक-प्रथम’ इत्यस्य अवधारणायाः साकारार्थम् अभिनव: डिजिटल-प्रयत्न: आरब्ध: अस्ति। अस्यान्तर्गतं ‘पिङ्क-गार्ड्’ दूरभाष-अनुप्रयोगः तथा कृत्रिम-बुद्धिमत्ता-आधारितः सम्मर्द-सुरक्षा-तन्त्रं विकसितं क्रियते।

जयपुर-नगरे प्रतिवर्षं प्रायः १.७३-कोटि-देशीय-पर्यटकाः तथा ६.३०-लक्षाधिकाः विदेशीय-पर्यटकाः आगच्छन्ति। विशेषतः अक्तूबर-मासात् मार्च-मासपर्यन्तं पर्यटकानां बहुल-आगमनं दृष्ट्वा जयपुर-आरक्षकविभागेन प्रौद्योगिक्याः माध्यमेन तेषां यात्रां सुरक्षितां स्मरणीयां च कर्तुं निर्णयः कृतः।

जयपुर-आरक्षक-आयुक्तः सचिन-मित्तलः अवदत् यत् ‘पिङ्क-गार्ड्’ अनुप्रयोगः विशेषरूपेण पर्यटकानां सहाय्यार्थं निर्मितः अस्ति। अस्य प्रमुख-विशेषतासु पर्यटकानां लुंठन-निवारणार्थं आरक्षकेण सत्यापितानां पर्यटन-मार्गदर्शकानां नाम, भाषा, मूल्याङ्कनं च अनुप्रयोगे उपलब्धं भविष्यति। प्रत्येकं पर्यटन-स्थलस्य समीपे स्थितानां आरक्षक-स्थानकानां चिकित्सालयानां च स्थानम्, मानचित्रम्, सम्पर्क-संख्या च एकेन क्लिक-इत्यनेन प्राप्स्यते। विदेशीय-पर्यटकानां सौविध्यर्थम् अयं बहुभाषिकः भविष्यति तथा प्रमुख-स्थलेषु स्मार्ट-नेविगेशन-सौविध्यं प्रदास्यति। पर्यटकाः अनुप्रयोगस्य माध्यमेन मार्गदर्शकानां मूल्याङ्कनं कर्तुं शक्नुवन्ति तथा कस्यापि समस्यायाः स्थितौ प्रत्यक्षतया सूचनां नोदितुं शक्नुवन्ति, यस्य निरीक्षणं वरिष्ठ-अधिकारीभिः क्रियते। अयं अनुप्रयोगः लॉगिन-विना अपि दूरभाषे, लैपटॉप-यन्त्रे अथवा टैबलेट-यन्त्रे त्वरितम् उपयोक्तुं शक्यते।

आयुक्तेन उक्तं यत् उत्सवेषु तथा विशाल-आयोजनेषु सम्मर्द-प्रबन्धनार्थं जयपुर-आरक्षकविभागेन सम्मर्द-तन्त्रस्य प्रवर्तनं क्रियते। एतत् तन्त्रं सीसीटीवी-जालकेन सम्बद्धं भविष्यति तथा कृत्रिम-बुद्धिमत्तायाः माध्यमेन वास्तविक-समये विश्लेषणं करिष्यति। एषा प्रौद्योगिकी सम्भावित-सम्मर्द-भारस्य धावन-स्थितेश्च पूर्वमेव आकलनं करिष्यति। सम्मर्द-घनत्वस्य वर्धने सति सम्बन्धित-अधिकारीणां समीपं स्वचालित-सूचना प्रेषिता भविष्यति। एषा प्रणाली प्रथमं आमेर-दुर्ग-क्षेत्रे प्रायोगिक-परियोजनारूपेण आरब्धुं जेडीए-संस्थया सह समन्वयः क्रियते।

जयपुर-आरक्षकविभागस्य एष: प्रयत्न: केवलं अपराधानाम् नियन्त्रणं न करिष्यति, अपितु प्रौद्योगिक्याः समावेशेन जयपुर-नगरं ‘स्मार्ट्-पर्यटक-अनुकूल-नगर’ रूपेण वैश्विक-स्तरे नूतनां दृढतां प्रदास्यति। आमेर-क्षेत्रे सफलतायाः अनन्तरं एषा प्रणाली हवामहल, जंतर-मंतर इत्यादिषु अन्येषु प्रमुख-स्मारकेष्वपि प्रवर्तिता भविष्यति।

Hindusthan Samachar / Divya Ranjan