Enter your Email Address to subscribe to our newsletters

भोपाल-नगरम्, १४ मईमासः (हि.स.)। फर्जी-विश्वविद्यालयानां अवैध-शिक्षण-संस्थानानां च जालात् विद्यार्थिनः रक्षितुं मध्यप्रदेश-सर्वकारस्य उच्च-शिक्षा-विभागेन विश्वविद्यालय-अनुदान-आयोगस्य (यूजीसी) निर्देशानुसारं व्यापक-जागरूकता-अभियानस्य शुभारम्भः कृतः। प्रदेशस्य सर्वेषां शासकीय-निजी-विश्वविद्यालयानां, शासकीय-अशासकीय-महाविद्यालयानां तथा शैक्षणिक-संस्थानानां कृते अस्मिन् विषये आवश्यक-निर्देशाः प्रसारिताः।
जनसम्पर्क-अधिकारी राजेश-दाहिमा गुरुवासरे सूचनां दत्त्वा उक्तवान् यत् यूजीसी वर्तमान-प्रवेश-सत्रं दृष्ट्वा विद्यार्थिभ्यः, अभिभावकेभ्यः तथा शैक्षणिक-संस्थाभ्यः सतर्कतायाः परामर्शं दत्तवती। आयोगस्य अनुसारं केचन संस्थानानि स्वयम् विश्वविद्यालयत्वेन उच्च-शिक्षण-संस्थानत्वेन च प्रस्तूय आकर्षक-विज्ञापनैः भ्रामक-कथनैश्च छात्रान् मोहयन्ति। एतादृशैः संस्थानैः प्रदत्ताः उपाधयः न उच्च-शिक्षायै मान्याः भविष्यन्ति, न च रोजगारार्थं उपयोगिन्यः।
तेन उक्तं यत् यूजीसी-आयोगस्य १८ मार्च-दिनाङ्कस्य सार्वजनिक-सूचनायामपि स्पष्टतया निर्दिष्टम् अस्ति यत् केवलं विधिक-मान्यता-प्राप्ताः विश्वविद्यालयाः संस्थानानि च उपाधिं प्रदातुं शक्नुवन्ति। अवैध-संस्थानात् प्राप्ताः उपाधयः कस्यापि शैक्षणिक-रोजगार-सम्बद्ध-उद्देश्यस्य कृते मान्याः न भविष्यन्ति।
तेन अपि उक्तं यत् यूजीसी-निर्देशानुसारं विद्यार्थिनः प्रवेशात् पूर्वं सम्बन्धित-संस्थानस्य मान्यतां परीक्षितुं प्रेरिताः भविष्यन्ति। विशेषरूपेण दशम-कक्षायाः द्वादश-कक्षायाश्च विद्यार्थिनः तेषां अभिभावकाः च जागरूकाः कर्तुं बलं दत्तम् अस्ति, येन उच्च-शिक्षायां प्रवेश-समये ते कस्यापि शैक्षणिकलुंठनस्य शिकाराः न भवेयुः।
मध्यप्रदेशस्य उच्च-शिक्षा-विभागेन एषा सूचना सर्वेषु उच्च-शिक्षण-संस्थानेषु प्रेषिता तथा व्यापक-प्रचार-प्रसारस्य निर्देशाः अपि दत्ताः। एष: प्रयत्न: विद्यार्थिनां शैक्षणिक-भविष्यस्य सुरक्षायै महत्त्वपूर्णं पदम् इति मन्यते।
मान्यता-प्राप्तानि संस्थानानि एव उपाधिं दातुं शक्नुवन्ति
यूजीसी-आयोगस्य १८ मार्च-दिनाङ्कस्य सार्वजनिक-सूचनानुसारं उपाधिः केवलं तैरेव विश्वविद्यालयैः अथवा संस्थानैः प्रदातुं शक्यते, ये राज्य-अधिनियमेन, केन्द्र-अधिनियमेन, प्रान्तीय-अधिनियमेन वा स्थापिताः स्युः अथवा यूजीसी-अधिनियमः १९५६ इत्यस्य अनुसारम् अधिकृताः स्युः।
प्रवेशात् पूर्वं एतत् परीक्षणं अवश्यं कुर्वन्तु
कस्मिंश्चित् संस्थाने प्रवेशात् पूर्वं तस्य मान्यता यूजीसी-अधिकृत-सूच्यां परीक्ष्यताम्। केवलं विज्ञापनानाम् आधारेण प्रवेशः न क्रियताम्। यदि कश्चन संस्थानं नियम-विरुद्धं शैक्षणिक-कार्यक्रमान् सञ्चालयति, तर्हि तस्य सूचना सम्बन्धित-प्राधिकरणाय दीयताम्।
Hindusthan Samachar / Divya Ranjan